SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥६५४॥ अशुभानां, कोऽर्थः ? - कृष्णनीलकापोतानां गन्ध इति प्रक्रमः, इह च लेश्यानामप्रशस्तत्वं गन्धस्याशुभत्वे हेतुरिति तद्विशेषादनुक्तोऽप्यस्य विशेषोऽवगम्यत इति नोक्तः । यथा सुरभिकुसुमानां - जातिकेतक्यादिसम्बन्धिनां सुगन्ध| पुष्पाणां गन्धः - परिमलः सुरभिकुसुमगन्धः, तथा गन्धाश्च - कोष्ठपुटपाकनिष्पन्ना वासाश्च - इतरे गन्धवासाः, इह चैतदङ्गान्येवोपचारादेवमुक्तानि तेषां पाठान्तरतश्च गन्धानां च, 'पिष्यमाणानां' संचूर्ण्यमानानां यथा गन्ध इति प्रक्रमः, तथा चातिप्रबलतरोऽसौ प्रादुर्भवतीत्येवमभिधानम्, 'अतोऽपि' एतत्प्रकारादपि गन्धाद् अनन्तगुणः | अतिशय सुगन्धितया प्रशस्त लेश्यानां 'तिसृणामपि' तैजसी पद्मशुक्लानां गन्ध इति प्रक्रमः, इहापि प्रशस्तत्वविशेषाद्गन्धविशेषोऽनुमीयत इति नोक्त इति सूत्रद्वयार्थः ॥ सम्प्रति स्पर्शमाह - जह करगयस्स फासो गोजिन्भाए व सागपत्ताणं । इत्तोवि अनंतगुणो लेसाणं अप्पसत्थाणं ॥ १८ ॥ जह वूरस्सवि फासो नवणीयस्स व सिरीसकुसुमाणं । इत्तोवि अनंतगुणो पसत्थलेसाण तिपि ॥ १९ ॥ यथा 'करगयरस'त्ति क्रकचस्य करपत्रस्य स्पर्शो गोर्जिह्वा गोजिह्वा तस्या वा यथा वा शाको — वृक्षविशेषस्तत्पत्राणां स्पर्श इति प्रक्रमः, 'अतोऽपि' एतत्प्रकारादपि स्पर्शादनन्तगुणः अत्यतिशायितया यथाक्रमं लेश्यानाम| प्रशस्तानामाद्यानां तिसृणां प्रक्रमात्स्पर्शोऽतिकर्कश इति हृदयम् । यथा 'बूरस्य वा' प्रतीतस्य स्पर्शः 'नवनीतस्य ' प्रक्षणस्य, यथा वा शिरीषो - वृक्षविशेषस्तत्कुसुमानामुभयत्र यथा स्पर्श इति प्रक्रमः, 'अतोऽपि' एतत्प्रकारादपि Jain Education International For Private & Personal Use Only लेश्याध्ययनं. ३४ ॥६५४॥ www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy