________________
Jain Education
व्याख्या - ग्रन्थिप्रसक्तानां - घनरागद्वेषपरिणामग्रन्थिं कर्कशघनरूढग्रन्थिसमं तथाविधपरिणामाभावतोऽभिन्दानानां | सत्त्वानां यो बन्धः सोऽनाद्यनन्तः - आद्यन्तविकलो ज्ञेयः, सिद्धानां पुनः - भविष्यत्सिद्धीनां बन्धोऽनादिरपि 'अन्त' | इति सान्तस्तथाविधपरिणामतो व्याख्यातो भगवद्भिरिति सूत्रार्थः ॥ सम्प्रति क्षेत्रमाह
सव्वजीवाण कम्मं तु संगहे छद्दिसागयं । सब्वैसुवि पएसेसु, सव्वं सव्वेण बद्धगं ॥ २८ ॥ सर्वे - एकेन्द्रियाद्यशेषभेदास्ते च ते जीवाश्च तेषां 'कर्म' ज्ञानावरणादि 'तुः' पूरणे सङ्ग्रहः - सङ्ग्रहणक्रिया तत्र योग्यं भवतीतिशेषः, यदिवा सर्वजीवा 'णं'ति वाक्यभूषायां कर्म 'संगहे' त्ति संगृह्णन्ति, कीदृशं सदित्याह - 'छद्दि| सागयन्ति पण्णां दिशानां समाहारः पदिशं तत्र गतं - स्थितं पदिशागतम्, अत्र चतस्रो दिशः पूर्वादय ऊर्द्धाधोदिगुद्वयं चेति षड् भवन्ति इदं चात्मावष्टब्धाकाशप्रदेशापेक्षयोच्यते, यत्र ह्याकाशे जीवोऽवगाढस्तत्रैव ये कर्मपुद्गलास्ते रागादिस्नेहगुणयोगादात्मनि लगन्ति न क्षेत्रान्तरावगाढाः भिन्नदेशस्य तद्भावपरिणामाभावात्, यथा निः स्वदेशस्थितान् प्रायोग्य पुगलानात्मभावेन परिणम्यति एवं जीवोऽपीति, अल्पत्वाच्चेह विदिशामविवक्षितत्वेन | पदिशागतमित्यभिधानं, यतो विदिग्व्यवस्थितमपि कर्मात्मना गृह्यते, उक्तं हि गन्धहस्तिना - "सर्वासु दिवात्मावधिकासु व्यवस्थितान् पुद्गलानादत्ते" इति, तथा 'क्षेत्रप्रस्तावे यद्विदिनिरूपणं तच्चासामाकाशादभेदज्ञापनार्थ, तद्भेदेन तासामप्रतीतेः तथा च यत्कैश्चिद्दिशां द्रव्यान्तरत्वमुक्तं तदपास्तं भवति, तथा पदिग्गतमपि द्वीन्द्रियादीने
For Private & Personal Use Only
*%%%%%%
www.jainelibrary.org