________________
उत्तराध्य.
बृहद्वृत्तिः
॥५९०॥
xxxxx
| भावः ४४ । सर्वगुणसंपन्नता च रागद्वेषपरित्यागतो जायत इति वीतरागतामाह - 'वीतरागतया ' रागद्वेषापगम| रूपया बन्धनानि - रागद्वेषपरिणामात्मकानि तृष्णा - लोभस्तद्रूपाणि बन्धनानि तानि च व्यवच्छिनत्ति, पाठान्तरतश्र 'स्नेहानुबन्धानि तृष्णानुबन्धानि च' तत्र स्नेहः - पुत्रादिविषयः तृष्णा-द्रव्यादिविषया तद्रूपाण्यनुवन्धनानि तुअनुगतान्यनुकूलानि वा बन्धनानि, अतिदुरन्तत्वख्यापनार्थं च रागान्तर्गतत्वेऽपि पृथक् तृष्णा स्नेहयोरुपादानं, ततश्च मनोज्ञेषु शब्दरसरूपगन्धेषु (सचित्ताचित्तमिश्रेषु - ख्यादिद्रव्येषु चैव विरज्यते, तृष्णास्त्रेहयोरेव रागहेतुत्वात्, आह| कषायप्रत्याख्यानफलेन वीतरागतोक्चैव तत्किमर्थमस्याः पृथगुपादानम् ?, उच्यते, रागस्यैव सकलानर्थमूलत्वख्यापना[ ४५ । रागद्वेषाभावे च तात्त्विकाः श्रमणगुणाः, तेषु च प्रथमत्रतपरिपालनोपायत्वात्क्षान्तिरेव प्रथमेति तामाह, तत्र क्षान्तिः - क्रोधजयस्तया 'परपहान्' अर्थाद्वधादीन् 'जयति' परीपहाध्ययनोक्तन्यायतोऽभिभवति ४६ । क्षान्ति| स्थितेनापि न मुक्तिं विनाऽशेपव्रतपरिपालनं कर्त्तुं शक्यमिति तामाह-मुक्तिः - निर्लोभता तथा किञ्चनाभावोऽकिञ्चनं, कोऽर्थः ? - निष्परिग्रहत्वं जनयति, अकिञ्चनश्च जीवोऽर्थे लोला- लम्पटा अर्थलोलाचौरादयस्तेषां न प्रार्थनीयः - प्रस्ता| वाद्वाधितुमनभिलपणीयो भवति ४७ । लोभाविनाभाविनी च मायेति तदभावेऽवश्यंभाव्यार्जवमतस्तदाह- 'अज्जवयाएत्ति सूत्रत्वाद् ऋजुः - अवक्रस्तद्भाव आर्जवं तेन - मायापरिहाररूपेण कायेन ऋजुरेव ऋजुकः कायर्जुकस्तद्भावस्तत्ताकुब्जादिवेपभ्रूविकाराद्यकरणतः प्राञ्जलता तां तथा भावः - अभिप्रायस्तस्मिंस्तेन वा ऋजुकता भावर्जुकता - यदन्य
Jain Education International
For Private & Personal Use Only
सम्यक्त्व
पराक्रमा.
२९
॥५९०॥
www.jainelibrary.org