________________
'परिक्षीणे' सर्वथा क्षयं गते, कदाचिदायुःक्षयस्याऽऽवीचिमरणेन प्रागपि सम्भवादेवमुच्यते, 'च्युतः' भ्रष्टो 'देहात्' शरीरात् , पाठान्तरतस्तु 'च्युतदेहो' अपगतेहत्यशरीरः 'विहिंसकः' विविधप्रकारैः प्राणिघातकः, "आसुरियंति अविद्यमानसूर्याम् , उपलक्षणत्वाद्रहनक्षत्रविरहितांच, दिश्यते नारकादित्वेनास्यां संसारीति दिक ताम्, अर्थात् भावदिशम् , अथवा रौद्रकर्मकारी सर्वोऽप्यसुर उच्यते, ततश्चासुराणामियमासुरी या तामासुरीयां दिशं, नरकगतिमित्यर्थः, 'बालः' अज्ञो गच्छति-याति 'अवशः' कर्मपरवशो, वचनव्यत्ययाच सर्वत्र बहुवचननिर्देशो व्याप्तिख्याप
नार्थो वा, यथा नैक एवंविधः किन्तु बहव इति, 'तमं'ति तमोयुक्तत्वात् तमः, देवगतेरप्यसूर्यत्वसम्भवात् तद्वयविच्छेदाय दिशो विशेषणं, ततोऽर्थान्नरकगतिम् , उक्तं हि-"णिचंधयारतमसा ववगयगहचंदसूरणक्खत्ता" इत्यादिखरूपख्यापकं वा द्वितीयं व्याख्यानमिति सूत्रार्थः ॥ सम्प्रति काकिण्याग्रदृष्टान्तद्वयमाह
जहा कागिणीए हेळं, सहस्सं हारए नरो । अपत्थं अंबगं भोचा, राया रजं तु हारए ॥ ११॥ व्याख्या-'यथा' इत्युदाहरणोपन्यासार्थः, 'काकिण्याः' उक्तरूपायाः 'हे'ति हेतोः कारणात् 'सहस्रं' दशशतात्मकं, कार्षापणानामिति गम्यते, 'हारयेत्' नाशयेत् 'नरः' पुरुषः । अत्रोदाहरणसम्प्रदायः
१ नित्यान्धकारतमसा व्यपगतग्रहचन्द्रसूर्यनक्षत्राः ।
ROCHOCOLANCHOCOM
Jain Educat
i onal
For Privale & Personal use only
Malainelibrary.org