________________
SCREER5-15ASCIENCE
चः प्राग्वत् , महान्-अपरिमितः आरम्भः-अनेकजन्तूपघातकृयापारः परिग्रहश्च-धान्यादिसञ्चयो यस्य स तथोक्तः, 'भुजानः' अभ्यवहरन् , 'सुरां' मदिरां, 'मांसं' पिशितं, 'परिवूढे'त्ति परिवृढः प्रभुरुपचितमांसशोणिततया तक्रियासमर्थ इतियावत् , अत एव परान्-अन्यान् दमयति-यत्कृत्याभिमतकृत्येषु प्रवर्तयतीति परन्दमः, किंच-अजःछागस्तस्य कर्कर-यच्चनकवद्भक्ष्यमाणं कर्करायते तच्चेह प्रस्तावान्मेदोदन्तुरमतिपक्कं वा मांसं तद्भोजी वा, अत एव । 'तुन्दिलः' जातबृहजठरः, चितम्-उपचयप्राप्तं लोहितं-शोणितमस्येति चितलोहितः, शेषधातूपलक्षणमेतत् , 'आयुः' जीवितं, 'नरके' सीमन्तकादौ काङ्क्षति तद्योग्यकारम्भितया, कमिव क इव ? इत्याह-'जहाएसं व | एडए'त्ति आदेशमिव यथैडकः-उक्तरूपः । इह च 'हिंसे' इत्यादिना साधेश्लोकेनारम्भ उक्तः, 'भुंजमाणे सुर'मित्या६ दिना चार्धद्वयेन रसगृद्धिः, 'आयुष्क'मित्यादिना चार्धेन दुर्गतिगमनं, तत्प्रतिपादनाचार्थतः प्रत्यपायाभिधानमिति र
सूत्रत्रयार्थः॥ इदानीं यदुक्तम् 'आयुर्नरके काङ्क्षती'ति, तदनन्तरमसौ किं कुरुत इत्याह,-यद्वा साक्षादैहिकापायदर्शनायाह
आसणं सयणं जाणं, वित्ते कामाणि भुजिया । दुस्साहडं धणं हिचा, बहुं संचिणिया रयं ॥८॥
ततो कम्मगुरू जंतू, पच्चुप्पण्णपरायणे । अएव्व आगया 'कंखे, मरणंतंमि सोयति ॥९॥ १ आगयाएसेत्ति टीका।
SCRECALL
Jain Educatio
n
al
For Private&Personal Use Only
lainelibrary.org