________________
व्याख्या-'एवमेव' यथाऽऽवीचिमरणं द्रव्यक्षेत्रकालभवभावभेदतः पञ्चविधं, तथाऽवधिमरणमपीत्यर्थः। तत्वरूपमाह-यानि मृतः, सम्प्रतीति शेषः, तानि चैव 'मरइ पुणो'त्ति आर्षत्वात्तिव्यत्ययेन मरिष्यति पुनः, किमुक्तं भवति ?-अवधिः-मर्यादा, ततश्च यानि नारकादिभवनिवन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय म्रियते, यदि पुनस्तान्येवानुभूय मरिष्यति तदा तद् द्रव्यावधिमरणं, सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां पुनर्ग्रहणम् , परिणामवैचित्र्याद्, एवं क्षेत्रादिष्वपि भावनीयं । पश्चार्द्धनाऽऽत्यन्तिकमरणमाह
___ एमेव आइयंतियमरणं नवि मरइ ताइ पुणो ॥ २१६ ॥ __ व्याख्या-'एवमेव' अवधिमरणवदात्यन्तिकमरणमपि द्रव्यादिभेदतः पञ्चविधं, विशेषस्त्वयम्-‘णवि मरइ ताइ । पुणो'त्ति अपिशब्दस्यैवकारार्थत्वान्नैव तानि द्रव्यादीनि पुनम्रियते, इदमुक्तं भवति-यानि नरकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति, एवं क्षेत्रादिष्वपि वाच्यं, त्रीण्यपि चामून्यवीच्यवध्यात्यन्तिकमरणानि प्रत्येकं पञ्चानां द्रव्यादीनां नारकादिगतिभेदेन चतुर्विधत्वाविंशतिभेदानीति गाथार्थः ॥२ साम्प्रतं वलन्मरणमाहसंजमजोगविसन्ना मरंतिजे तं वलायमरणं तु । इंदियविसयवसगया मरंति जे तं वसहं तु ॥२१७॥
Sain Education
pronal
For Privale & Personal use only
M
ainelibrary.org