SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य बृहद्वृत्तिः ॥२३१॥ वीचीति संज्ञा संजाता अस्मिंस्तारकादित्वात् 'तदस्य सञ्जतं तारकादिभ्य इतजि' ( पा० ५-२-४६ ) त्यनेनेत्यावी| चिसंज्ञितम्, अथवा वीचिः - विच्छेदस्तदभावादवीचि तत्संज्ञितम्, उभयत्र प्रक्रमान्मरणं, यद्वा संज्ञितशब्दः प्रत्येकमभिसम्बध्यते, ततश्च अनुसमयसंज्ञितं - निरन्तरसंज्ञितम् अवीचिसंज्ञितमिति एकार्थिकान्येतानि, 'तदि' यावीचि - | मरणं ' भणन्ति' प्रतिपादयन्ति 'पञ्चविधं' पञ्चप्रकारं, गणधरादय इति गम्यते, अनेन च पारतन्त्र्यं द्योतयति, तदेवाह - 'दघे 'ति द्रव्यावीचिमरणं 'खेत्ते 'त्ति क्षेत्रावीचिमरणं 'काले'त्ति कालावीचिमरणं 'भवे य'त्ति भवावीचि - मरणं च 'भावे य'त्ति भावावीचिमरणं च, संसार इत्याधारनिर्देशः, तत्रैव मरणस्य सम्भवात्, तत्र द्रव्यावीचिमरणं | नाम यन्नारकतिर्यग्नरामराणामुत्पत्तिसमयात् प्रभृति निजनिजायुः कर्म्मदलिकानामनुसमयमनुभवनाद्विचटनं तच्च नारकादिभेदाच्चतुर्विधम् एवं नरकादिगतिचातुर्विध्यापेक्षया तद्विषयं क्षेत्रमपि चतुर्दैव, ततस्तत्प्राधान्यापेक्षया क्षेत्रावीचिमरणमपि चतुर्दैव, 'काल' इति यथाऽऽयुष्ककालो गृह्यते, न त्वद्वाकालः, तस्य देवादिष्वसम्भवात् स च | देवायुष्ककालादिभेदाच्चतुर्विधः, ततस्तत्प्राधान्यापेक्षया कालावीचिमरणमपि चतुर्विधम्, एवं नरकादिचतुर्विधभवापेक्षया भवावीचिमरणमपि चतुधैव तेषामेव च नारकादीनां चतुर्विधमायुःक्षयलक्षणं भावं प्राधान्येनापेक्ष्य भावावीचिमरणमपि चतुधैव वाच्यमिति गाथार्थः ॥ २१५ ॥ अधुनाऽवधिमरणमाहएमेव ओहिमरणं जाणि मओ ताणि चैव मरइ पुणो । " Jain Education International For Private & Personal Use Only अकाम मरणाध्य. ५ ॥२३१॥ www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy