SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ChecruiRECOGAR व्याख्या-'उरभ्र' उक्तरूपः 'काकिणिः' विंशतिकपर्दकाः 'उरब्भे य'त्ति चशब्दस्य भिन्नक्रमत्वात् काकिणिश्च |'अंबए यत्ति आम्रकं च-आम्रफलं, व्यवहारश्च-क्रयविक्रयरूपो वणिग्धः , चस्य गम्यमानत्वात् , सागरश्च-समुद्रः, चः सर्वत्र समुच्चये, एवोऽवधारणे, भिन्नक्रमश्चैवं योज्यते-पञ्चैवैते न तु न्यूनाधिकाः 'दृष्टान्ता' उदाहरणानि 'उरभ्रीये'। उरभ्रीयनाम्न्यध्ययन इति गाथार्थः॥ सम्प्रति यदर्थसाधादुरभ्रस्य दृष्टान्तता तदुपदर्शनायाह आरंभे रसगिद्धी दुग्गतिगमणं च पच्चवाओ य । उवमा कया उरब्भे उरब्भिज्जस्स निजुत्ती ॥ २४८॥ ही व्याख्या-आरम्भणं आरम्भः-पृथिव्याधुपमर्दः, रसेषु-मधुरादिषु गृद्धिः-अभिकाङ्क्षा रसगृद्धिः, दुर्गतिगमनं च नरकतिर्यगादिषु च पर्यटनं, प्रत्यपायश्चेहैव शिरश्छेदादिः, वक्ष्यति हि "सिरं छेत्तूण मुजति'त्ति शिरश्छेदादातरौद्रोपगतस्य दुर्गतिपाते दुःखानुभवनादिरुपमा-सादृश्योपदर्शनरूपा, प्रक्रमादेभिरेवारम्भादिभिरथैः कृता' विहिता |'उरभ्रे' उरभ्रविषया, इदमुक्तं भवति-साम्प्रतक्षिणो हि विषयामिषगृनवस्तांस्तानारम्भानारभन्ते, आरभ्य चोपचितकर्मभिःकालशौकरिकादिवदिहैव दुःखमुपलभ्य नरकादिकां कुगतिमाप्नुवन्तीत्युरचोदाहरणता इहोपदयते, काकिण्यादिसाधर्म्यदृष्टान्तोपलक्षणं चैतद्, 'उरभ्रीयस्य नियुक्ति'रिति निगमनमेतदिति गाथार्थः॥ इत्यवसितो नामनिष्पननिक्षेपः, सम्प्रति सूत्रालापकनिक्षेपावसरः, स च सूत्रे सति भवतीत्यतः सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् जहाऽऽएसं समुद्दिस्स, कोइ पोसेज एलयं । ओयणं जवसं देजा, पोसेन्जावि सयंगणे ॥१॥ JainEducation For Private & Personal Use Only brary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy