SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ॥ व्याख्यातं क्षुल्लकनिर्ग्रन्थीयं पष्ठमध्ययनं साम्प्रतं सप्तममारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने निर्ग्रन्थत्वमुक्तं तच्च रसगृद्धिपरिहारादेव जायते, स च विपक्षेऽपायदर्शनात्, तच दृष्टान्तोपन्यासद्वारेणैव परिस्फुटं भवतीति रसगृद्धिदोषदर्शकोर भ्रादिदृष्टान्तप्रतिपादकमिदमध्ययनमारभ्यते, इत्यनेनाभिसम्बन्धेनायातस्याध्ययन| स्योपक्रमादिद्वारचतुष्टयमुपवर्ण्य तावद्यावन्नामनिष्पन्न निक्षेपे उरश्रीयमिति नाम, अत उरनिक्षेपमाहनिक्खेवो उ उरब्भे चउविहो दुविहो य होइ दव्वंमि । आगमनोआगमओ नोआगमओ अ सो तिविहो । व्याख्या- 'निक्षेपः' न्यासः, तुः पूरणे, 'उरभ्रे' उरभ्रविषयः 'चतुर्विधः' चतुष्प्रकारः, नामस्थापनाद्रव्यभावभेदात्, तत्र नामस्थापने क्षुण्णे एव इति द्रव्योरभ्रमाह - द्विविधो भवति 'द्रव्य' इति द्रव्यविषयः, आगमनोआगमतः, | तत्रागमत उरभ्रशब्दार्थज्ञः तत्र चानुपयुक्तः, नोआगमतः पुनः, चस्य पुनरर्थत्वात्, 'स' इति द्रव्योरभ्रः 'त्रिविधः ' | त्रिभेद इति गाथार्थः ॥ त्रैविध्यमेवाह जाणगसरीरभविए तबइरित्ते अ सो पुणो तिविहो । एगभविअ बद्धाऊ अभिमुहओ नामगोए अ ॥ २४५ ॥ व्याख्या - ज्ञशरीरोरन उरनशब्दार्थज्ञस्य सिद्धशिलातलगतं शरीरमुच्यते, भव्यशरीरोरभ्रस्तु यस्तावदुरभ्रशब्दार्थ न जानाति कालान्तरे च ज्ञास्यति तस्य यच्छरीरं, 'तद्व्यतिरिक्तश्च' ताभ्यां - ज्ञशरीरभव्यशरीरोरभ्राभ्यां व्यतिरिक्तो उत्तराध्य.४६ Jain Education hal bnal For Private & Personal Use Only -% www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy