SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥२६७॥ विषण्णा-विषादं गताः पापकर्म्मभिः - पापानुष्ठानैः यथा कथमेवमनुष्ठायिनो वयं भविष्याम इति, पठन्ति च - 'विसन्ना | पावकिञ्चेहिं'ति तथैव, कुतस्त एवंविधा इत्याह- 'बाला' रागद्वेषाकुलिताः पण्डितमात्मानं मन्यन्ते इत्येवंशीलाः | पण्डितमानिनः, ये हि बालाः पण्डितमानिनश्च न स्युस्ते स्वयं सम्यगजानानाः परं पृच्छेयुः तदुपदेशतश्च तानि परिहरेयुः न तु विषण्णा एवासीरन्, ये तु बालाः पण्डितमानिनःश्च ते स्वयमजानाना अपि जानानमन्यमात्मन्यभिमानतोऽनुपासमाना एवंविधा एव भवन्तीति सूत्रार्थः ॥ साम्प्रतं सामान्येनैव मुक्तिपथपरिपन्थिनां दोपदर्शनायाह जे केइ सरीरे सत्ता, वण्णे रूवे य सव्वसो । मणसा कायवक्केणं, सव्वे ते दुक्ख संभवा ॥ १२ ॥ व्याख्या - ये केचित् 'शरीरे ' शरीरविषये 'सक्ता' बद्धाग्रहाः, क ? इत्याह- 'वर्णे' सुस्निग्धगौरत्वादिके 'रूपे च' सुसंस्थानतायां, चशब्दात् स्पर्शादिषु, वस्त्राद्यभिष्वङ्गोपलक्षणं चैतत्, 'सघसो 'ति सूत्रत्वात् सर्वथा - सर्वैः स्वयंकरणकारणादिभिः प्रकारैः, मनसा कथं वर्णादिमन्तो वयं भविष्याम ? इत्यभिसन्धिना, वचसा रसायनादिप्रश्नात्मकेन, चशब्दात् कायेन च रसायनाद्युपयोगेन, एवेति पूरणे, पठ्यते च - ' कायवक्केणं' ति कायश्च शरीरं वाक्यं च| वचनं कायवाक्यं तेन, 'सर्वे' निरवशेषा गुरुपादुकातो मुक्तिः नास्ति वा मुक्तिरित्यादिवादिनोऽपि न केवलमार्यादि Jain Education therational For Private & Personal Use Only क्षुल्लकनिग्रन्थीयम् ६ ॥२६७॥ winelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy