SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ %AARAKAR भणंता अकरिता य, बंधमोक्खपइण्णिणो। वायाविरियमेत्तेणं, समासासेंति अप्पगं ॥१०॥ व्याख्या-'भणन्तः'प्रतिपादयन्तः, प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति, 'अकुर्वन्तश्च' मुक्त्युपायमनुष्ठानं, बन्धमोक्षौउक्तरूपी तयोः प्रतिज्ञा-अभ्युपगमः तद्वन्तः, सूत्रत्वाचेना निर्देश, अस्ति बन्धोऽस्ति च मोक्ष इत्येवंवादिन एव केवलं, न तु तथाऽनुष्ठायिनः, वाचि वीर्यम्-आत्मशक्तिर्वाग्वीय वाचालतेति यावत् , तदेवानुष्ठानशून्यं वाग्वीर्यमानं तेन 'समाश्वासयन्ति' विज्ञानादेव वयं मुक्तिगामिन इति स्वास्थ्यं प्रापयन्ति, कम् ?-आत्मानमिति सूत्रार्थः॥ यथा चैतन्न चारु तथा खत एवाह न चित्ता तायए भासा, कओ विजाणुसासणं? । विसण्णा पावकम्महिं. बाला पंडियमाणिणो ॥११॥ __ व्याख्या-न' नैव 'चित्रा' प्राकृतसंस्कृतादिरूपा आर्यविषयं ज्ञानमेव मुक्त्यङ्गमित्यादिका वा 'त्रायते' रक्षति, पापेभ्य इति गम्यते, केत्याह-भाष्यत इति भाषा-वचनात्मिका, स्यादेतत्-अचिन्यो हि मणिमन्त्रमहौषधीनां प्रभाव इत्यघोरादिमत्रात्मिका वाक् त्राणाय भविष्यतीत्याह, कुतो ? विदन्त्यनया तत्त्वमिति विद्या-विचित्रमन्त्रात्मिका तस्या अनुशासनं-शिक्षणं विद्यानुशासनं त्रायते पापाद्भवाद्वा १, न कुतोऽपि, तन्मात्रादेव मुक्ती शेषानुष्ठान वैयर्थ्यप्रसङ्गादिति भावः । अत एव ये तदपि त्राणायेति वदन्ति ते यादृशास्तदेवाह-विविधम्-अनेकप्रकारं सन्नानाममा विषण्णाः, केषु ?-'पावकम्महिंति पापकर्मसु पापहेतुषु हिंसाधनुष्ठानेषु, सततं तत्कारितयेति भावः, यद्वा| Sain Education Conal For Privale & Personal use only nelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy