SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ कर्मणि ल्युद, आर्षत्वादादानीयं वा, नरककारणत्वान्नरकं दृष्ट्वा, किमित्याह-'नाददीत' न गृहीत न खीकुर्यादितियावत्, 'तणामवि'त्ति तृणमपि, आस्तां रजतरूप्यादि, कथं तर्हि प्राणधारणमित्याह-'दोगुंछी'त्याद्यध, जुगुप्सते आत्मानमाहारं विना धर्मधुराधरणाक्षममित्येवंशीलो जुगुप्सी, आत्मनः इति आत्मसम्बन्धिनि पात्रे-भाजने प्राप्ते| वा भोजनसमय इति शेषः, 'दत्तं' निसृष्टं, गृहस्थैरिति गम्यते, 'भुजेज'त्ति भुञ्जीत भोजनम्-आहारं, अनेनाहारस्यापि भावतोऽखीकरणमाह, जुगुप्सिशब्देन तदप्रतिबन्धदर्शनात्, ततश्च परिग्रहाश्रवनिरोध उक्तः, तदेवं 'तन्मध्यपतितस्तद्हणेन गृह्यत' इति न्यायात् मृषावादादत्तादानमैथुनात्मकावत्रयनिरोध उक्तः, यद्वा 'सत्यमिच्छेदिति सत्यशब्देन साक्षात्संयममपि वदता मृषावादनिवृत्तिराक्षिप्ता, तद्द्वारेणापि तस्य सत्यत्वात् , आदानमित्यादिना तु साक्षाददत्तादानविरतिरुक्ता, आदानं हि ग्रहणमेव रूढं, तच्चादत्तस्येति गम्यते, तं 'नरकं' नरकहेतुं दृष्ट्वा नाददीत तृणमप्यदत्तमितीहापि गम्यते, 'गवास'मित्यादिना तु परिग्रहाश्रवनिरोधः, तन्निरोधाभिधानाच नापरिगृहीता स्त्री भुज्यत इतिकृत्वा मैथुनाश्रवनिरोधोऽप्युक्त एव । नन्वेवं स्वयं त्यक्तगवादिपरिग्रहस्य परकीयं चानाददानस्य कथं प्राणवृत्तिः, इत्याह-जुगुप्स्यात्मनः पात्रे दत्तं भुञ्जीत भोजनमिति, पात्रग्रहणं तु व्याख्याद्वयेऽपि मा भूत् निष्परिग्रहतया पात्रस्याप्यग्रहणमिति कस्यचिद् व्यामोह इति ख्यापनार्थ, तदपरिग्रहे हि तथाविधलब्ध्याद्यभावेन पाणिभोक्तृत्वाभावाहिभाजन एव भोजनं भवेत् , तत्र च बहुदोषसम्भवः, तथा च शय्यम्भवाचार्य:-"पच्छा Sain Education a l For Privale & Personal use only Polnelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy