________________
उत्तराध्य.
क्षुल्लकनि ग्रन्थीयम्
बृहद्वृत्तिः
॥२६४॥
इह च यस्मादविद्यावन्तः संसारे लुप्यन्ते तस्मात् 'मय्येव निपतत्वेतजगहुश्चरितं हि यत् । मतसुचरितयोगेन, स वै कल्याणभाजनम् ॥१॥ इति शाक्यादिपरिकल्पिताविद्यापरिहारेणात्मार्थमेव, न तु परार्थ, सत्यमेषयेद् , अपरकतस्यापरत्रासङ्क्रमणेन परार्थानुष्ठानस्यानर्थकत्वाद् , अन्यत् प्राग्वदिति सूत्रार्थः ॥ अपरं चमाया पिया पहुसा भाया, भजा पुत्ता य ओरसा । नालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा ॥३॥ |
एयमदं सपेहाए, पासे समियदंसणे । छिंद गेहिं सिणेहं च, ण कंखे पुव्वसंथवं ॥४॥ व्याख्या-तत्राद्यसूत्रपूर्वाध स्पष्टं, नवरं स्नुषा-वध्वः, पुत्राश्च उरसि भवा औरसाः खयमुत्पादिताः, आस्तां जातपुत्रादयः, किमित्याह-नालं' न समर्थाः 'ते' मात्रादयो मम 'त्राणाय' रक्षणाय, कथंभूतस्य ?-'लुप्यमानस्य' छिद्यमानस्य, केन ?-'खकर्मणा' खकृतेन ज्ञानावरणादिना, किमुक्तं भवति ?-वकर्मविहितां बाधामनुभवतः एते मात्रादयो न त्राणायेति, एवमात्मकमनन्तरोक्तमर्थ-वस्तु 'सपेहाए'त्ति प्राकृतत्वात् संप्रेक्षया-सम्यगबुद्ध्या स्वप्रेक्षया वा, 'पासे'त्ति पश्येदवधारयेत् , शमितं दर्शनं प्रस्तावात् मिथ्यात्वात्मकं येन स तथोक्तः, यदिवा सम्यक् इतं-गतं जीवादिपदार्थेषु दर्शनं-दृष्टिरस्येति समितदर्शनः, कोऽर्थः?-सम्यग्दृष्टिः सन् , ततश्च 'छिंद'त्ति छिन्द्यात् , सूत्रत्वात्तिब्यत्ययः, एवं सर्वत्रानुच्यमानोऽप्ययं भावनीयः, 'गृद्धिं' विषयाभिकाङ्क्षां 'स्नेहं च' खजनादिषु प्रेम 'न' नैव 'काङ्क्षद्' अभिलषेद्, अपेर्गम्यमानत्वात् काझेदपि न, किं पुनः कुर्यादिति भावः । पूर्वसंस्तवं पूर्वपरिचयमे
॥२६४॥
Jain Education International
For Private & Personal use only
Malayainelibrary.org