________________
मानदुःखोत्पत्तयः, अमुमेवार्थ व्यतिरेकेणाह-मूढा' अज्ञानाऽऽकुलितमतय एव लुप्यन्ते बहुशः संसारेऽनन्तक इति, काका वा व्याख्येयं, दृश्यन्ते हि यानपात्रिण इहैव मोहायालुप्यमानाः, तथा च वृद्धाः-जहा समुद्दे वाणिया दुबायाहयजाणवत्ता दिसामूढा खणेण अंतोजलगयपच्चयमासाएऊण भिन्नपोया महावीतिकल्लोलेहिं वुज्झमाणा कुम्मगमगराईहिं विलुप्पंति, एवं तेऽवि अविजा बहुसो मूढा सारीरमाणसेहिं महादुक्खेहिं विलुप्पन्तीति सूत्रार्थः । यतश्चैवं ततो यत्कृत्यं तदाह
समिक्ख पंडिए तम्हा, पास जाइपहे बहू । अप्पणा सच्चमेसेजा, मित्तिं भूएहिं कप्पए ॥२॥ | व्याख्या-'समीक्ष्य' आलोच्य 'पण्डितो' हिताहितविवेकभाक् 'त(ज)म्ह'त्ति यस्मादेवमविद्यावन्तो लुप्यन्ते तस्मात्, पाठान्तरतश्च तस्मात् , समीक्ष्य मेधावी-मर्यादावर्ती, किं तत् समीक्ष्येत्याह-पाशा-अत्यन्तपारवश्यहेतवः कलत्रा|दिसम्बन्धास्त एव तीव्रमोहोदयादिहेतुतया जातीनाम्-एकेन्द्रियादिजातीनां पन्थान:-तत्तापकत्वान्मार्गाः पाशजातिपथाः तान् 'बहून्' प्रभूतान् अविद्यावतां विलुप्तिहेतून् , किमित्याह-'आत्मना खयं न तु परोपरोधादिना, सद्भयो -जीवादिभ्यो हितः-सम्यग् रक्षणप्ररूपणादिभिः सत्यः-संयमः सदागमो वा तमेषयेत्-गवेषयेत् , एषयंश्च सत्यं किं कुर्याद् इत्याह-'मैत्री' मित्रभावं 'भूतेषु' पृथिव्यादिषु जन्तुषु 'कल्पयेत् ' कुर्यात् , पठ्यते वा-'अत्तठ्ठा सच्चमेसेज्जा' __ १ यथा समुद्रे वणिजो दुर्वाताहतयानपात्रा दिग्मूढाः क्षणेन जलान्तर्गतपर्वतमासाद्य भिन्नपोता महावीचिकल्लोलैरुह्यमानाः कूर्ममकरादिभिविलृप्यन्ते, एवं तेऽप्यविद्यामूढाः बहुशो शारीरमानसैर्महादुःखैः विलुप्यन्ते ।
Jain Education
For Privale & Personal use only
jainelibrary.org