________________
AAMGEXXXX
शिविकादीनि शयनानि च-पल्यङ्कादीनि आसनानि च-सिंहासनादीनि यानशयनासनानि, चः समुच्चये, दास्यःअङ्कपतिताः दासा अपि तथाविधा एव अनयोः समाहारः, चः प्राग्वत् , 'कुवियं च'त्ति कुप्यं च-विविधं गृहोपस्करात्मकम् । अत्र च धनधान्यसञ्चयो मित्रज्ञातिसंयोगश्चेति द्वौ शेषाश्चाष्टेति दशविधो बाह्यग्रन्थ इति गाथार्थः॥४ निगमयितुमाह___ सावजगंथमुक्का अभितरबाहिरेण गंथेण । एसा खलु निजुत्ती खुड्डागनियंठसुत्तस्स ॥ २४३ ॥
व्याख्या-सहावधेन-दोषेण वर्तत इति सावद्यः स चासौ ग्रन्थश्च सावद्यग्रन्थस्तेन मुक्ताः सावद्यग्रन्थमुक्ताः, अनेन च रजोहरणमुखवस्त्रिकावर्षाकल्पादेर्दशविधबाह्यग्रन्थान्तर्गतत्वेऽपि धर्मोपकरणत्वेनानवद्यतयाऽमुक्तावपि |निग्रन्थत्वमुक्तम् , एवं च मा भूत्कस्यचिद्यामोहो-बाह्येनैव सावद्यग्रन्थेन मुक्ता इत्याह-आभ्यन्तरवाह्येन ग्रन्थेन, न तु बाह्येनैव, मुक्ता इति शेषः, 'एषा' अनन्तरोक्ता 'खलु' निश्चितं निरिति-निश्चिताधिका वा युक्तिरस्यामिति नियुक्तिः-नामनिष्पन्न निक्षेपनियुक्तिरित्यर्थः, कस्येत्याह-खुड्डागणियंठसुत्तस्स'त्ति क्षुल्लकनिर्ग्रन्थनामकं सूत्रं तस्येति गाथार्थः ॥ इत्युक्तो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तस्य चायमभिसम्बन्धः-इहानन्तरा|ध्ययनसूत्रे 'मुनिः सकाममरणं म्रियते' इत्युक्तं, स च मननान्मुनिरिति ज्ञान्येव, ये त्वज्ञानिनस्ते किमित्याह
जावंतविजा पुरिसा, सव्वे ते दुक्खसंभवा । लुप्पंति बहुसो मूढा, संसारंमि अणंतए ॥१॥
Jain Education
For Privale & Personal use only
nelibrary.org