________________
तराईमई विचिंतेइ, धिरत्थु मम जीवियं । जाऽहं तेणं परिचत्ता, सेयं पब्वइ मम ॥ २९॥ अह सा भमरस
निभे, कुच्चफणगप्पसाहिए। सयमेव लुचई केसे, धिइमंती ववस्सिया ॥ ३०॥ | सूत्रत्रयं स्पष्ट, नवरं निष्क्रान्ता हासान्निर्हासा, चशब्दो भिन्नक्रमस्ततो निरानन्दा च, 'समवसृता' अवष्टब्धा । धिगस्तु मम जीवितमिति खजीवितनिन्दोद्भावकं खेदवचो, याऽहं तेन परित्यक्तेति खेदहेतूपदर्शनं, ततश्च श्रेयः' अतिशयप्रशस्य 'प्रत्रजितुं' प्रव्रज्यां प्रतिपत्तुं मम येनान्यजन्मन्यपि नैवं दुःखभागिनी भवेयमिति भावः । इत्थं चासौ तावदवस्थिता यावदन्यत्र प्रविहृत्य तत्रैव भगवानाजगाम, तत उत्पन्नकेवलस्य भगवतो निशम्य देशनां विशेषत उत्पन्नवैराग्या किं कृतवतीत्याह-'अहे'त्यादि, 'अर्थ' अनन्तरं 'सा' राजीमती 'भ्रमरसन्निभान्' कृष्णतया आकुञ्चिततया च, कूर्ची-गूढकेशोन्मोचको वंशमयः फणकः कङ्कतकस्ताभ्यां प्रसाधिताः-संस्कृता ये तान् स्वयम्' आत्मनैव 'लुञ्चति' अपनयति, भगवदनुज्ञयेति गम्यते, 'केशान्' कचान् 'धिइमंति'त्ति धृतिमती व्यवसितेति-अध्यवसिता सती, धर्म विधातुमिति शेष इति सूत्रत्रयार्थः ॥ तत्प्रव्रज्याप्रतिपत्तौ च
वासुदेवो अ णं भणइ, लुत्तकेसि जिइंदियं । संसारसागरं घोरं, तर कन्ने ! लहुं लहुं ॥३१॥
स्पष्टमेव, नवरं 'तर' इत्युल्लङ्घय, आशीर्वचनत्वादयमप्याशिषि लोद, 'लघु लघु' त्वरितं त्वरितं, संभ्रम द्विवचन18/मिति सूत्रार्थः । तदुत्तरवक्तव्यतामाह
उत्तराध्य.८३
Sain Educa
Enational
For Privale & Personal use only
A
jainelibrary.org