________________
Jain Education i
| बहु च पुरस्तात्त्विति प्राग्वहुच्प्रत्ययः, ये हि सर्वथा निःसत्त्वास्ते मूलत एव न निर्मन्थमार्ग प्रतिपद्यन्त इत्येवमुच्यते, | यदिवा कातरा एव बहवः संभवन्तीति बहुशब्दो विशेषणं, 'नराः' पुरुषाः' सीदन्तश्च नात्मानमन्यांश्च रक्षयितुं क्षमा | इतीयं सीदनलक्षणाऽपराऽनाथतेति भावः ॥ ' जो पचइत्ताणे' त्यादि सूत्राणि सीदनस्यैवानेकधा स्वरूपानुवादतः | फलदर्शकानि स्पष्टान्येव नवरं 'नो स्पृशति' इति नासेवते 'प्रमादात्' निद्रादेरनिगृहीतः - अविद्यमानविषयनियत्रण | आत्माऽस्येत्यनिग्रहात्मा, अत एव 'रसेषु' मधुरादिषु 'गृद्ध:' गृद्धिमान् बध्यतेऽनेन कर्मेति बन्धनं - रागद्वेषात्मकं 'से' इति सः ॥ ' आयुक्तता' दत्तावधानता 'काचिदिति खल्पाऽपि ' आयाणणिक्खेवदुगुंडणा ए'ति आदाननिक्षेपयोःउपकरणग्रहणन्यासयोर्जुगुप्सनायाम्, इह चोच्चारादीनां संयमानुपयोगितया जुगुप्सनीयत्वेनैव परिस्थापना जुगुप्सनोक्ता, स ईदृक् किमित्याह - वीरैर्यातो गतो वीरयातस्तम् 'अनुयाति' अनुगच्छति, नेति सम्बन्धः, अल्पसत्त्वतयेति भावः, कं १ – 'मार्ग' सम्यग्दर्शनादिकं मुक्तिपथम् ॥ तथा च 'चिरमपि' प्रभूतकालमपि मुण्ड एव - | मुण्डन एव केशापनयनात्मनि शेषानुष्ठानपराङ्मुखतया रुचिर्यस्यासौ मुण्डरुचिः, अस्थिराणि - गृहीतमुक्ततया | चलानि व्रतान्यस्येत्यस्थिरत्रतः 'तपोनियमेभ्यः' उक्तरूपेभ्यः 'भ्रष्टः' च्युतश्चिरमपि 'अप्पाण' त्ति आत्मानं 'क्लेश|यित्वा' लोचादिनां बाधयित्वा, आत्मनैवेति गम्यते, न 'पारगः' पर्यन्तगामी भवति 'हुः' वाक्यालङ्कारे 'संपरा| एति संपरायन्ति-भृशं पर्यटन्त्यस्मिन् जन्तव इति सम्परायः - संसारस्तस्य, सूत्रे च सुव्यत्ययात्सप्तमी ४ ॥ स चैवं
For Private & Personal Use Only
nelibrary.org