SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ च 'अहो ?' इत्याश्वर्ये 'वर्णः' सुस्निग्धो गौरतादिः 'रूपम्' आकारः 'सौम्यता' चन्द्रस्येव द्रष्टुरानन्ददायिता 'असङ्गता' निःस्पृहता, पादवन्दनानन्तरं प्रदक्षिणाऽभिधानं पूज्यानामालोक एव प्रणामः क्रियत इति ख्यापनार्थ, तथा | चागमः- “ आलोए जिणपडिमाणं पणामं करेति "त्ति । 'प्रतिपृच्छति' प्रश्नयति, तरुणेत्यादिना प्रश्नखरूपमुक्तम्, इह च यत एव तरुणोऽत एव प्रत्रजितो भोगकाल इत्युच्यते, तारुण्यस्य भोगकालत्वात्, यद्वा तारुण्येऽपि रोगादिपी| डायां न भोगकालः स्यादित्येवमभिधानं, सोऽपि कदाचित्संयमेऽनुद्यत एव स्यात् त्वं पुनरुपस्थितश्च- कृतोद्यमश्च | श्रामण्ये, पठन्ति च 'उवहितोऽसि 'त्ति, एनम् 'अर्थ' निमित्तं येनार्थेन त्वमीश्यामप्यवस्थायां प्रत्रजितः शृणोमि 'ता' इति तावत् पश्चात्तु यत्त्वं भणिष्यसि तदपि श्रोष्यामीति भाव इति श्लोकसप्तकार्थः ॥ इत्थं राज्ञोक्ते मुनिराह - हो मि महारा!, नाहो मज्झ न विज्जई । अणुकंपयं सुहिं वावि, कंची नाहि तुमे महं ॥ ९ ॥ 'अनाथः ' अखामिकोsस्मीत्यहं 'महाराज !' प्रशस्यनृपते !, किमित्येवं ? यतो 'नाथः' योगक्षेमविधाता मम न विद्यते, तथा 'अणुकंपगं' ति आर्षत्वादनुकम्पको यो मामनुकम्पते, 'सुहिं'ति तत एव सुहृदू 'वावि'त्ति प्राग्वदेव 'कंचित्ति कचिन्न विद्यते, ममेति सम्बन्धः, 'नाहि'त्ति प्रक्रमादनन्तरोक्तमर्थ जानीहि 'तुमि त्तित्वं, पठ्यते च - 'कंची नाभिसमेमहं' कञ्चिदनुकम्पकं सुहृदं वाऽपि 'नाभिसमेमि' नाभिसंगच्छामि, न केनचिदनुकम्पेन सुहृदा वा | सङ्गतोऽहमित्यादिनाऽर्थेन तारुण्येऽपि प्रत्रजित इति भाव इति सूत्रार्थः ॥ एवं च मुनिनोक्ते Jain Educationational For Private & Personal Use Only jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy