________________
CAREERASEX
सितं-बद्धमिहाष्टविध कर्म तद् ध्मातं-भस्मसाद्भूतमेपामिति सिद्धाः-ध्यानानलनिर्दग्धाष्टकर्मेन्धनाः, उक्तं हि"सियं धंतन्ति सिद्धस्स, सिद्धत्तमुवजायति"त्ति, तेभ्यः, कोऽभिप्रायः?-तीर्थकरसिद्धेभ्य इतरेभ्यश्च 'नमो नमस्कारं कृत्वा'-विधाय 'संयतेभ्यश्च' सकलसावधव्यापारोपरतेभ्य आचार्योपाध्यायसर्वसाधुभ्यः इतियावत् 'भावतः' परमार्थतो न तु संवृत्त्यैव, इत्थं पञ्चपरमेष्टिरूपेष्टदेवतास्तवमभिधायाभिधेयादित्रयमेवाह-अर्थश्च धर्म|श्चार्थधर्मों यदिवाऽर्थ्यते-हितार्थिभिरभिलष्यते इत्यर्थः, स चासौ धर्मश्चार्थधर्मस्ततस्तयोस्तस्य वा गतिः-गत्यर्थानां ज्ञानार्थतया हिताहितलक्षणा खरूपपरिच्छित्तिर्यया यस्यां वा साऽर्थधर्मगतिस्तां, पाठान्तरतोऽर्थधर्मवती वा 'तचं ति तथ्याम्-अविपरीताम् 'अनुशिष्टिं' हितोपदेशरूपां शिक्षा 'शृणुत' आकर्णयत 'मे' इति मम मया वा कथयतः कथ्यमानां वेति शेषः, स्थविरवचनमेतत् , अनेन च पूर्वोत्तरकालभाविक्रियाद्वयानुगतैककर्तृप्रतिपादनेनात्मनो नित्यानित्यत्वमाह, एकान्तनित्यत्वे ह्यविचलितरूपत्वान्न पूर्व क्रियाकर्तृत्वस्वरूपपरिहारेणोत्तरक्रियाकर्तृत्वाख्यखरूपान्तरसम्भवः, एकान्तानित्यत्वपक्षे तु क्षणध्वंसित्वादुत्तरक्रियाकाल आत्मनोऽसत्त्वमेवेति नैकान्तनित्यानित्यपक्षयोः पूर्वोत्तरक्रियानुगतैककर्तृसम्भव इति भावनीयम्, इह चानुशिष्टिरभिधेया, अर्थधर्मगतिः प्रयोजनम् , अन- योश्च परस्परमुपायोपेयभावलक्षणः सम्बन्धः सामर्थ्यादुक्त इति सूत्रार्थः ॥ सम्प्रति धर्मकथानुयोगत्वादस्य धर्मकथाकथनव्याजेन प्रतिज्ञातमुपक्रमितुमाह
Jain Education
Tonal
For Privale & Personal use only
Finelibrary.org