________________
उत्तराध्य.
बृहद्वृत्तिः ॥४७॥
सज्ञोपयुक्ताश्च, २६ । द्वारम् । 'आहार'त्ति पुलाकादयो निग्रेन्थावसाना आहारका एव, स्नातकस्तु आहारकोड- महानिम्रनाहारको वा २७ । द्वारं। तथा 'भव'त्ति पुलाकादयश्चत्वारो जघन्यत एकं भवग्रहणमुत्कृष्टतस्तु पुलाकनिम्र
न्थीया० न्थयोस्त्रीणि, बकुशप्रतिसेवककषायकुशीलानामष्टौ स्नातकस्याजघन्योत्कृष्टमेकमेव २८ । द्वारं । 'आगरिस'त्ति आकर्षणमाकर्षः, स चेह सर्वविरतेग्रहणमोक्षौ, पुलाकादीनां चतुर्णा जघन्येनैकभविक एक एवाकर्षः, उत्कृष्टेन । पुलाकस्य त्रयो बकुशप्रतिसेवककषायकुशीलानां शतशो, निर्ग्रन्थस्य द्वौ, स्नातकस्याजघन्योत्कृष्ट एकः, नानाभवि-15 काकर्षापेक्षया पुलाकादीनां चतुर्णा जघन्येन द्वौ उत्कृष्टेन पुलाकस्य सप्त, बकुशस्य कुशीलद्वयस्य च सहस्रशो, निम्रन्थस्य पञ्च, स्नातकस्य तु नास्त्येव २९॥ द्वारं। 'काले'त्ति पुलाको जघन्यत उत्कृष्टतश्चान्तमुहूतं यावद्भवति, बकुशप्रतिसेवककषायकुशीलास्तु जघन्येनैकसमयमुत्कृष्टेन देशोनां पूर्वकोटिं, निर्ग्रन्थोऽपि जघन्यत एकं समयमुत्कृष्टेनान्तमुहूर्त, तथा च भगवत्याम्-"णियंठे पुच्छा, गोयमा ! जहण्णेणं एक समयं उक्कोसेणं अंतोमुहुत्तं” अन्ये तु निम्रन्थोऽपि जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेवेति मन्यन्ते, सातको जघन्येनान्तर्मुहूर्त्तमुत्कृष्टतो देशोनां पूर्वकोटिम् , एवमेकजीवापेक्षया, बहुजीवापेक्षया तु पुलाकनिम्रन्थौ जघन्यत एकं समयमुत्कृष्टेनान्तर्मुहूर्त, बकुशः सर्वाद्धम्, एवं प्रतिसेवककषायकुशीलनातका अपि ३० । द्वारम् । 'अंतरे यत्ति पुलाकादीनां चतुर्णामन्तरं जघन्येनान्तर्मुहूर्तमुत्कटतोऽनन्तं कालं, स च कालतोऽनन्ता उत्सर्पिण्यवसर्पिण्यः, क्षेत्रत उपार्द्धपुरलपरावर्तों देशोनः, स्नातकस्य नास्त्य
XARAOSHA
॥४७on
OPRESA*X*
JainEducation
For Private & Personal Use Only
elibrary.org