________________
महानिर्ग
न्धीया०
उत्तराध्य. स्नातकोऽपि, नवरमयं क्षीणकषायवीतराग एव ३।द्वारं । 'कप्पो'त्ति 'कल्पः' स्थितास्थितकल्पो जिनकल्पादिर्वा. बृहद्वृत्तिः
तत एव पुलाकादयः किं स्थितकल्पेऽस्थितकल्पे वा?, द्वयोरपि स्युः, स्थविरकल्पादिरूपकल्पापेक्षया तु पुलाकः
स्थविरकल्पे जिनकल्पे वा, न तु कल्पातीतः, तथा चागमः-“पुलाए णं भंते ! किं जिणकप्पे होजा ? थेरकप्पे ॥४६॥ * होजा ? कप्पाईए होजा ?, गोयमा ! जिणकप्पे वा होजा थेरकप्पे वा होजा णो कप्पातीते होज"त्ति, अन्ये त्वाहुः
| स्थविरकल्प एवेति, बकुशप्रतिसेवनाकुशीलावपि जिनकल्पे स्थविरकल्पे वा, न तु कल्पातीती, कषायकुशीलस्त्रिष्वपि स्यात् , निर्ग्रन्थस्नातको कल्पातीतावपि ४ । द्वारं । 'चरित्त'मिति पुलाकबकुशप्रतिसेवनाकुशीलाः सामायिकच्छेदोपस्थापनीययोः, कपायकुशीलश्चैतयोः परिहारविशुद्धिसूक्ष्मसंपराययोश्च, निर्ग्रन्थो यथाख्यात एव, एवं स्नातकोऽपि ५। द्वारं । 'पडिसेवण'त्ति, पुलाकः प्रतिसेवको नाप्रतिसेवकः, स हि मूलगुणोत्तरगुणानामन्यतमविराधनात एव भवति, बकुशोऽपि प्रतिसेवक एव, नवरमुत्तरगुणविराधनातः, प्रतिसेवनाकुशीलः पुलाकवत् , कषायकुशीलनिर्ग्रन्थस्नातका अप्रतिसेवका एव ६।द्वारं । 'णाण'त्ति, पुलाकबकुशप्रतिसेवका द्वयो ज्ञानयोस्त्रिषु वा, तत्र द्वयोमतिश्रुतयोस्त्रिषु
मतिश्रुतावधिषु, इह च पुलाकस्य श्रुतं नवमपूर्वतृतीयाचारवस्तुन आरभ्य यावन्नव पूर्वाणि पूर्णानि, उक्तं हिMI"आरतो परओ वा न लद्धी लभइ" कषाय कुशीलो द्वयोस्त्रिषु चतुर्पु वा, तत्र द्वयोर्मतिश्रुतयोस्त्रिषु मतिश्रुतावधिषु
मतिश्रुतमनःपर्यायेषु (वा चतुर्प) मतिश्रुतावधिमनःपर्यायेषु, निर्ग्रन्थोऽप्येवमेव, स्नातकस्तु केवलज्ञान एव, श्रुतज्ञाने
॥४६७॥
5154525
Jain Educatio
n
For Private & Personal use only
Wasinelibrary.org