________________
SISSEASES LICHAASTASHAX*
मानापमानयोः, गौरवादीनि सूत्रे सुब्व्यत्ययेन ससम्यन्ततया निर्दिष्टानि पञ्चम्यन्ततया व्याख्येयानि, निवृत्त इति । च सर्वत्र सम्बन्धनीयम् , 'अबन्धनः' रागद्वेषबन्धनरहितः। अत एव 'अनिश्रितः' इहलोके परलोके वाऽनिश्रितो नेहलोकार्थ परलोकार्थ वाऽनुष्ठानवान् ‘णो इहलोगट्टयाए तवमहिढेजा नो परलोगट्टयाए तवमहिढेजा' इत्याद्यागमात् पुनरनिश्रिताभिधानं च मन्दमतिविनेयानुग्रहार्थमदुष्टमेव, वासीचन्दनकल्प इत्यनेन समत्वमेव विशेषत आह, वासीचन्दनशब्दाभ्यां च तद्व्यापारकपुरुषावुपलक्षितौ, ततश्च यदि किलैको वास्या तक्ष्णोति, अन्यश्च गोशीर्षादिना चन्दनेनालिम्पति, तथाऽपि रागद्वेपाभावतो द्वयोरपि तुल्यः, कल्पशब्दस्येह सदृशपर्यायत्वात् , 'अनशने' इति च नञाऽभावे कुत्सायां वा, ततश्चाशनस्य-भोजनस्याभावे कुत्सिताशनभावे वा कल्पः, इह चेष्टितोऽधिकाराणां प्रवृत्तिरिति पूर्वत्र समस्तमपि कल्प इत्यनुवर्तते, 'अप्रशस्तेभ्यः' प्रशंसाऽनास्पदेभ्यः 'द्वारेभ्यः' कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः 'सर्वतः' सर्वेभ्यो य आश्रयः-कर्मसंलगनात्मकः स पिहितः-तद्वारस्थगनतो निरुद्धो येनासौ पिहिताश्रवः, सापेक्षस्यापि गमकत्वात्समासः, यद्वाऽप्रशस्तेभ्यो द्वारेभ्यः सर्वेभ्यो निवृत्त इति गम्यते, अत एव पिहिताश्रवः, कैः पुनरयमेवंविधः ?-अध्यात्मेत्यात्मनि ध्यानयोगाः-शुभध्यानव्यापारा अध्यात्मध्यानयोगास्तैः, अध्यात्मग्रहणं तु परस्थानां तेषामकिञ्चित्करत्वाद्, अन्यथाऽतिप्रसङ्गात् , प्रशस्तः प्रशंसास्पदो दमश्च-उपशमः शासनं च-सर्वज्ञागमात्मकं यस्य स प्रशस्तदमशासन इति सूत्रषट्वार्थः॥ सम्प्रति तत्फलोपदर्शनायाह
Jain Education
Lotional
For Private & Personal use only
Sainelibrary.org