________________
उत्तराध्य.
बृहद्वृत्तिः
॥४६४॥
मित्र तां मन्यमानः प्रहसितमुख इत्यर्थः, पठन्ति च - 'संवेगजणियसद्धो 'त्ति स्पष्टमेव, तथा मोक्षो - मुक्तिस्तद्गमनाय बद्धमिति धृतं चिह्न - धर्मध्वजादि तदेव सन्नाहो - दुर्वचनशरप्रसरनिवारकः क्षान्त्यादिर्वा येन स तथा 'पडिच्छीय'त्ति 'प्रत्यैषीत् ' प्रतिपन्नवानिति गाथाचतुष्टयार्थः ॥ ततोऽसौ कीदृक् सञ्जात इत्याह
पंचमहवयजुत्ता पंचसमिओ तिगुत्तिगुत्तो अ । सभितरवाहिरिए, तवोकम्मंमि उज्जुओ ॥८८॥ निम्ममो निरहंकारो, निस्संगो चत्तगारवो। समो अ सव्वभूएस, तसेसु धावरेसु अ ॥ ८९ ॥ लाभालाभे सुहे दुक्खे, जीविए मरणे तहा । समो निंदापसंसासु, तहा माणावमाणओ ॥ ९० ॥ गारवेसु कसाएसु, दंडसल्लभएस अ । नियत्तो हाससोगाओ, अनियाणो अबंधणो ॥ ९१ ॥ अणिस्सिओ इहं लोए, परलोए अणिस्सिओ वासीचंदणकप्पो अ, असणे अणसणे तहा ॥ ९२ ॥ अप्पसत्थेहिं दारेहिं, सव्वओ पिहियासवो । अज्झप्पझाणजोगेहिं, पसत्थदमसासणो ॥ ९३ ॥
सूत्रषङ्कं निगदसिद्धमेव, नवरं 'सन्भितरवाहिरिए 'त्ति सहाभ्यन्तरैः - प्रायश्चित्तादिभिर्वायैश्च - अनशनादिभिर्भेदैर्य| र्त्तत इति सबाह्याभ्यन्तरं तस्मिन् प्रधानत्वाच्च प्रथममभ्यन्तरोपादानं ॥ 'निर्ममः' ममत्वबुद्धिपरिहारतः 'निस्सङ्गः ' सङ्गहेतुधनादित्यागतः 'समश्च' न रागद्वेषवान्निर्ममत्वादेरेव ॥ लाभेत्यादिना समत्वमेव प्रकारान्तरेणाह, अत्र च 'समः' न लाभादौ चित्तोत्कर्षभाग् नाप्यलाभादौ दैन्यवान्, जीविते मरणे समो, नैकत्राप्याकाङ्क्षावान्, 'माणावमाणओ'त्ति
Jain Education tional
For Private & Personal Use Only
मृगापुत्री
या० १९
॥४६४॥
ainelibrary.org