SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ CAMSANCCAMSANCHAMALINSAR पामियं कापोती येयं वृत्तिः-निर्वहणोपायः, यथा हि ते नित्यशङ्किताः कणकीटकादिग्रहणे प्रवर्त्तन्ते, एवं भिक्षुरप्येषणादोषशङ्कयेव भिक्षादौ प्रवर्त्तते, सा च दुरनुचरत्वेन दारयति कातरमनांसीति दारुणेत्युत्तरेण योगः, अभिधेयवशाच लिङ्गविपरिणामः, उपलक्षणं चैतत्समस्तोत्तरगुणानामिति, यचेह ब्रह्मव्रतस्य पुनर्दुर्द्धरत्वाभिधानं तदस्यातिदष्करत्वख्यापनार्थम् ॥ उपसंहारमाह-सुखं-सातं तस्योचितो-योग्यः सुखोचितः 'सुकुमारः' अकठिनदेहः 'सुमजितः' सुष्छु त्रपितः, सकलनेपथ्योपलक्षणं चैतत्, इह च सुमज्जितत्वं सुकुमारत्वे हेतुः, उभयं चैतत्सुखोचितत्वे, अतश्च 'न हुसि'त्ति नैव असि-भवसि 'प्रभुः' समर्थः 'श्रामण्यम्' अनन्तरोदितगुणरूपम् 'अणुपालेउ'न्ति अनुपालयितुम्, इह च सुखोचितत्वाभिधानमनीशो हीदृशं दुःखमपि न दुःखमिति मन्यते ॥ पुनरप्रभुत्वमेवोदाहरणैः समर्थयितुमाह-'अविश्रामः' यत्रोद्धृते न विश्रम्यते 'गुणानां' यतिगुणानां 'तुः' पूरणे 'महाभरः' महासमूहो गुरुको लोहमार इव यो दुर्वहः स वोढव्य इति शेषः, त्वं तु सुखोचित इत्यतो न प्रभुरसीत्युत्तरत्रापि योजनीयम् ॥ आकाशे गङ्गाश्रोतोवद् दुस्तर इति योज्यते, लोकरूढ्या चैतदुक्तं, तथा 'प्रतिश्रोतोवत् यथा प्रतीपं जलप्रवाहो 'दुस्तरः' दुःखेन तीर्यत इति, बाहुभ्यां 'सागरो चेव'त्ति सागरवच दुस्तरो यः सः 'तरितव्यः' पारगमनायावगाह|यितव्यः, कोऽसौ ?, गुणाः-ज्ञानादयस्त उदधिरिव गुणोदधिः, कायवाङ्मनोनियत्रणा चात्र दुष्करत्वे हेतुः, 'निराखादः' नीरसो विषयगृद्धानां वैरस्यहेतुत्वात् ॥'अही'त्यादि, अहिरिवकोऽन्तो-निश्चयो यस्याः सा तथा, Sain Educati o nal For Privale & Personal Use Only jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy