________________
Jain Education I
वस्थितत्वेऽप्यनित्य आवासः - प्रक्रमाज्जीवस्यावस्थानं यस्मिन्नित्यशाश्वतावासं पुनः 'इदमित्यभिधानमतीवासारत्वावेश सूचकं, दुःखम् - असातं तद्वेतवः क्लेशाः ज्वरादयो रोगा दुःखक्लेशाः शाकपार्थिवादिवत्समासस्तेषां 'भाजनं ' स्थानं, यतश्चैवमतोऽशाश्वते शरीरे 'रतिं' चित्तखास्थ्यं 'नोपलभे' न प्राप्नोम्यहं भोगेषु सत्स्वपीति गम्यते, शरीराश्रयत्वात्तेषामिति भावः, शरीराशाश्वतत्वमेवाह - पश्चात्पुरा वा त्यक्तव्ये शरीरे इति प्रक्रमः, तद्धि पश्चादिति भुक्तभोगावस्थायां वार्द्धक्यादौ, पुरा अभुक्तभोगितायां वा बाल्यादौ त्यज्यत इति यद्वा पश्चादिति - यथास्थित्यायुःक्षयोत्तरकालं पुरा वेत्युपक्रमहेतोर्वर्षशताद्या संकलितजीवितप्रमाणात्प्रागपि 'त्यक्तव्ये' अवश्यत्याज्ये 'फेनबुद्बुदसंनिभे' क्षणदृष्टनष्टतया, अनेनाशाश्वतत्वमेव भावितमिति न पौनरुत्यमिति सूत्रत्रयार्थः ॥ एवं भोगनिमन्त्रणपरिहारमभिधाय प्रस्तुतस्यैव संसारनिर्वेदस्य हेतुमाह
माणुसत्ते असारंमि, वाहीरोगाण आलए । जरामरणघत्थंमि, खर्णपि न रमामहं ॥ १४ ॥ जम्म दुक्खं जरा दुक्खं, रोगा य मरणाणि य । अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो ॥ १५ ॥ खित्तं वत्थं हिरणं च, पुत्तदारं च बंधवा । चइता ण इमं देहं गंतव्वमवसस्स मे ॥ १६ ॥ जह किंपागफलाणं, परिणामो न सुंदरो। एवं भुत्ताण भोगाणं, परिणामो न सुंदरी ॥ १७ ॥
सूत्रचतुष्टयं स्पष्टं, नवरं व्याधयः - अतीव वाधाहेतवः कुष्टादयो रोगाः - ज्वरादयस्तेषाम् 'आलये' आश्रये 'जरा -
For Private & Personal Use Only
nelibrary.org