SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ नि CARRANGALASARGAON |'च' पुनरर्थः 'अम्मापिय'ति अम्मा(म्बा)पितरौ 'उपागम्य' उपसृत्य 'इदम्' अनन्तरवक्ष्यमाणं वचनम् 'अब्रवीत्' | इत्याह, इति सूत्रार्थः ॥ किं तदब्रवीदित्याह सुआणि मे पंच महव्वयाणि, नरएसु दुक्खं च तिरिक्खजोणिसु । निविण्णकामो मि महण्णवाओ, अणुजाणह पव्वइस्सामि अम्मो ॥१०॥ | 'श्रुतानि' आकर्णितानि, अन्यजन्मनीसभिप्रायः, 'मे' मया 'पञ्च' इति पञ्चसङ्ख्यानि 'महाव्रतानि' हिंसाविरमणादीनि, तथा नरकेषु 'दुःखं च' असातमिहैव वक्ष्यमाणं 'तिरिक्खजोणिसुत्ति चशब्दस्याप्रयुज्यमानस्यापि “अह-* रहनयमानो गामश्वं पुरुषं पशुम्" इत्यादाविव गम्यमानत्वात् तिर्यग्योनिषु च, सर्वत्र चायं न्यायो द्रष्टव्यः, उपलक्षणं चैतद् देवमनुष्यभवयोः, ततः किमित्याह-णिविणकामोमिति 'निर्विण्णकामः' प्रतिनिवृत्ताभिलाषोऽस्म्यहं, कुतः ?-महार्णव इव महार्णवः-संसारस्तस्माद्, यतश्चैवमतः 'अनुजानीत' अनुमन्यध्वं, मामिति शेषः, 'पवइस्सामी'ति प्रव्रजिष्यामि 'अम्मोत्ति पूज्यतरत्वाद्विशिष्टप्रतिबन्धास्पदत्वाच मातुरामत्रणं, यो हि भविष्यदुःखं नावैति तत्प्रतिकारहेतुं वा स कदाचिदित्थमेवासीत, अहं तूभयत्रापि विज्ञ इति कथं न दुःखप्रतीकारोपायभूतां महाव्रतात्मिकां प्रव्रज्यां प्रतिपत्स्य इति सूत्रगर्भार्थः ॥ अमुमेवार्थमनुवादतः स्पष्टयितुमाह नियुक्तिकृत् Jain Education National For Privale & Personal use only M ainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy