SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ अथवाऽत एव लक्ष्यते यथा 'अप्पणो य परेसिं च' इत्यादिना तस्यायुर्विज्ञतामवगम्य सञ्जयमुनिनाऽसौ पृष्टः कियन्ममायुरिति, ततोऽसौ प्राह-यच त्वं मां कालविषयं पृच्छसि तत्प्रादुष्कृतवान् 'बुद्धः सर्वज्ञोऽत एव तज्ज्ञानं जिनशासने व्यवच्छेदफलत्वाजिनशासन एव न त्वन्यस्मिन् सुगतादिशासने,अतो जिनशासन एव यत्नो विधेयो येन यथाऽहं जानामि तथा त्वमपि जानीष, शेषं प्राग्वदिति सूत्रार्थः॥ पुनरुपदेष्टुमाह किरियं च रोअए धीरो, अकिरियं परिवजए । दिट्ठीए दिद्विसंपन्नो, धम्मं चरसु दुच्चरं ॥ ३३ ॥ 'क्रियां च' अस्ति जीव इत्यादिरूपां सदनुष्ठानात्मिकां वा 'रोचयेत्' तथा तथा भावनातो यथाऽसावात्मने रुचिता जायते तथा विदध्यात् 'धीरः' मिथ्याग्भिरक्षोभ्यः, तथा 'अक्रियां' नास्त्यात्मेत्यादिकां मिथ्याकूपरिकल्पिततत्तदनुष्ठानरूपां वा 'परिवर्जयेत्' परिहरेत् , ततश्च 'दृष्टया' सम्यग्दर्शनात्मिकया हेतुभूतया 'दिद्विसंपन्नो'त्ति |"धीदृष्टिः शेमुषी धिषणा" इति शाब्दिकश्रुतेदृष्टि:-बुद्धिः, सा चेह प्रस्तावात्सम्यगज्ञानात्मिका तया संपन्नोहैयुक्तो दृष्टिसंपन्नः, एवं च सम्यग्दर्शनज्ञानान्वितः सन् 'धर्म' चारित्रधर्म 'चर' आसेवख 'सुदुश्चरम्' अत्यन्तदुरनुष्ठेयमिति सूत्रार्थः ॥ पुनः क्षत्रियमुनिरेव सञ्जयमुनि महापुरुषोदाहरणैः स्थिरीकर्तुमाह एयं पुण्णपयं सुच्चा, अत्थधम्मोवसोहियं । भरहोऽवि भारहं वासं, चिचा कामाई पव्वए॥ ३४॥सगरोऽवि सागरंतं, भरहवासं नराहिवो । इस्सरियं केवलं हिच्चा, दयाए परिनिव्वुडे ॥ ३५ ॥ चइत्ता भारहं वासं, Jain Educati o nal For Privale & Personal use only lininelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy