SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ SAMRSACREAAR येन कालेन, तत्पल्योपममुच्यते ॥२॥” इति वचनाद्वर्षशतैः केशोद्धारहेतुभिरुपमा अर्थात्पल्यविषया यस्या सा वर्षशतोपमा, द्विविधाऽपि स्थितिः, सागरोपमस्यापि पल्योपमनिष्पाद्यत्वात् , तत्र मम महापाली दिव्या भवस्थितिरासीदित्युपस्कारः, अतश्चाहं वर्षशतोपमायुरभूवमिति भावः। 'से' इत्यथ स्थितिपरिपालनादनन्तरं 'च्युतः' भ्रष्टः 'ब्रह्मलोकात्' पञ्चमकल्पात् 'मानुष्यं मनुष्यसम्बन्धिनं 'भवं' जन्म 'आगत' आयातः । इत्थमात्मनो जातिस्मरणलक्षणमतिशयमाख्यायातिशयान्तरमाह-आत्मनश्च परेषां वा 'आयुः'जीवितं 'जाने' अवबुध्ये 'यथा' येन प्रकारेण स्थितमिति गम्यते 'तथा' तेनैव प्रकारेण न त्वन्यथेत्यभिप्रायः, इति सूत्रद्वयार्थः ॥ इत्थं प्रसङ्गतः परितोषतश्चापृष्टमपि खवृत्तान्तमावेद्योपदेष्टुमाह| नाणा रुइंच छंदं च, परिवजिज्ज संजओ। अणट्ठा जे अ सव्वत्था, इइ विजामणुसंचरे ॥३०॥ | 'नाने त्यनेकधा 'रुचिंच' प्रक्रमाक्रियावाद्यादिमतविषयमभिलाषं 'छन्दश्च' खमतिकल्पितमभिप्रायम्, इहापि नानेति सम्बन्धादनेकविधं 'परिवर्जयेत्' परित्यजेत् 'संयतः' यतिः । तथा 'अनर्थाः' अनर्थहेतवो ये च 'सर्वार्थाः' अशेषहिंसादयो गम्यमानत्वात्तान् वर्जयेदिति सम्बन्धः, यद्वा 'सवत्थे'साकारस्यालाक्षणिकत्वात्सर्वत्र क्षेत्रादावना इति-निष्प्रयोजना ये च व्यापारा इति गम्यते, तान् परिवर्जयेत् , 'इती' सेवंरूपां 'विद्या' सम्यग्ज्ञानरूपामन्विति -लक्षीकृत्य 'संचरेः' त्वं सम्यक् संयमाध्वनि याया इति सूत्रार्थः ॥ अन्यच्च Jain Education in For Privale & Personal use only * elibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy