SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Jain Education जसीति भावः, 'राजन्' नृपते ! 'प्रेत्यार्थ' परलोकप्रयोजनं नावबुध्यसे, किमुक्तं भवति ? - जानास्यपि न, किं पुन| स्तत्करणमिति ॥ तथा 'दाराश्च' कलत्राणि प्राकृतत्वान्नपा निर्देशः, सुताश्चैव 'मित्राणि च ' प्रतीतान्येव, तथा 'बान्धवाः ' | खजनाः जीवन्तम् 'अनुजीवन्ति' तदुपार्जितवित्ताद्युपभोगत उपजीवन्ति, मृतं 'णाणुवयंति यत्ति चशब्दस्यापिशब्दार्थत्वादनुव्रजन्त्यपि न, किं पुनः सह यास्यन्तीति, तदनेन दारादीनामपि कृतघ्नतया न तेष्वास्थां विधाय धर्मे उदासितव्यमित्युक्तमिति, इदं च सूत्रं चिरन्तनवृत्तिकृता न व्याख्यातं प्रत्यन्तरेषु च दृश्यत इत्यस्माभिरुन्नीतम् ॥ || पुनस्तत्प्रतिबन्धनिराकरणायाह - 'नीहरंति'त्ति निस्सारयन्ति 'मृतम्' इति गतायुषं 'पुत्राः सुताः 'पितरं ' जनकं | 'परमदुःखिताः' अतिशय सञ्जातदुःखा अपि किं पुनर्ये न तथा दुःखभाज इति भावः, पितरोऽपि तथा पुत्रान्, | 'बंधु'त्ति बन्धवश्च बन्धूनिति शेषः, अतश्च किं कृत्यमित्याह - राजन् ! तप उपलक्षणत्वाद्दानादि 'चरेः' आसेवखेति ॥ अपरञ्च 'ततो' त्ति मृतनिःसारणादनन्तरं 'तेन' इति मित्रपत्रादिना 'अर्जिते' विढपिते 'द्रव्ये' वित्ते 'दारेषु च ' कलत्रेषु च 'परिरक्षितेषु' सर्वापायपरिपालितेषु, उभयत्रार्षत्वादेकवचनं, 'क्रीडन्ति' विलसन्ति तेनैव वित्तेन दारैश्चेति गम्यते 'अन्ये' अपरे राजन् ! 'हट्टतुट्ठमलंकिय'त्ति हृष्टाः - बहिः पुलकादिमन्तः तुष्टाः - आन्तरप्रीतिभाजः 'अलङ्कृताः' विभूषिताः, यत ईदृशी भवस्थितिस्ततो राजन् ! तपश्चरेरिति मध्यदीपकत्वादनन्तरसूत्रोक्तेन सम्बन्धः ॥ मृतस्य च | को वृत्तान्त इत्याह- ' तेनापि' मृतेन यत् 'कृतम्' अनुष्ठितं कर्म 'शुभं वा' पुण्यप्रकृतिरूपं, यद्वा 'सुखं वा सुखहेतुः tional For Private & Personal Use Only ainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy