SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥२४५॥ सिखिजा, सिक्खियं ण णिरत्थयं । अट्टमट्टपसाएण, भुंजए गुडतुंबयं ॥ १॥ तेण ताणि वडपत्ताणि अणट्ठाए छिहियाणि, अच्छीणि पुण अट्ठाए पाडियाणि । दण्डमारभत इत्युक्तं, तत्किमसावारम्भमात्र एवावतिष्ठते इत्याह'भूयगामं 'ति भूताः - प्राणिनस्तेषां ग्रामः - समूहस्तं विविधैः प्रकारैर्हिनस्ति - व्यापादयति, अनेन च दण्डत्रयव्यापार | उक्त इति सूत्रार्थः ॥ ८ ॥ किमसौ कामभोगानुरागेणैतावदेव कुरुते ? उतान्यदपीत्याह हिंसे वाले मुसावाई, माईल्ले पिसुणे सढे । भुंजमाणे सुरं मंसं, सेयमेयंति मन्नइ ॥ ९ ॥ व्याख्या - हिंसनशीलो हिंस्रः अनन्तरोक्तनीत्या, तथैवंविधश्च सन्नसौ 'बालः' उक्तरूपो 'मृषावादी'ति अलीकभाषणशीलः, 'माइले 'ति माया - परवञ्चनोपायचिन्ता तद्वान् 'पिशुनः' परदोषोद्घाटक : 'शठः' तत्तन्नेपथ्यादिकरणतोऽन्यथाभूतमात्मानमन्यथा दर्शयति, मण्डिकचौरवत्, अत एव च भुआनः 'सुरां' मद्यं 'मां' पिशितं 'श्रेयः' | प्रशस्यतरमेतदिति मन्यते, उपलक्षणत्वात् भाषते च-'न मांसभक्षणे दोषो, न मद्ये न च मैथुन' इत्यादि, तदनेन | मनसा वचसा कायेन चासत्यत्वमस्योक्तमिति सूत्रार्थः ॥ ९ ॥ पुनस्तद्वक्तव्यतामेवाह - कायसा वयसा मत्ते, वित्ते गिद्धे य इत्थिसु । दुहओ मलं संचिणइ, सिसुनागुव्व मट्टियं ॥ १० ॥ १ शिक्षेत शिक्षितं न निरर्थकम् । अट्टमट्टप्रसादेन, भुज्यते गुडतुम्बकम् ॥ १ ॥ तेन तानि वटपत्राणि अनर्थाय छिद्रितानि, अक्षिणी पुनरर्थाय पातिते Jain Education International For Private & Personal Use Only %%* अकाम मरणाध्य. ५ ॥२४५॥ www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy