SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Jain Education **%%%% "पृथिव्यपस्तेजोवायुरिति तत्त्वानि, एतेभ्यश्चैतन्यं, मद्याङ्गेभ्यो मदशक्तिवत्", तथा 'नासइति नश्यन्ति - अभ्रप|टलवत्प्रलयमुपयान्ति 'णावचिट्ठे'त्ति न पुनः अवतिष्ठन्ते- शरीरनाशे सति न क्षणमप्यवस्थितिभाजो भवन्ति, यद्वा | शरीरे सत्यप्यमी सत्त्वा नश्यन्ति, नावतिष्ठन्ते, जलबुद्बुदवत्, उक्तं हि - "जलबुद्वदवज्जीवाः " अत्र च प्रत्यक्षतोऽनुपलम्भ एव प्रमाणं, न हासौ शरीरे शरीरव्यतिरिक्तो वा भवान्तरप्राप्तौ प्रत्यक्षत उपलभ्यत इति नास्ति, शशविपाणवदिति भाव इति सूत्रार्थः ॥ कुमारकावाहतुः - नो इंदिग्गज्झु अमुत्तभावा, अमुत्तभावा चिय होइ निचो । अज्झत्थवं निययस्स बंधो, संसारहेउं च वयंति बंधं ॥ १९ ॥ 'नो' इति प्रतिषेधे इन्द्रियैः - श्रोत्रादिभिर्ग्राह्यः - संवेद्य इन्द्रियग्राह्यः सत्त्व इति प्रक्रमः असत्त्वादेवायमिन्द्रियाग्राय इत्याशङ्कयाह- 'अमूर्त्तभावात्' इन्द्रियग्राह्यरूपाद्यभावात्, अयमाशयः- यदिन्द्रियग्राह्यं सन्नोपलभ्यते तदसदिति निश्चीयते, यथा प्रदेशविशेषे घटो, यत्तु तद्भावमेव न भवति न तस्यानुपलम्भेऽप्यभावनिश्चयः, पिशाचादिवत्, | तद्विषयानुपलम्भस्य संशयहेतुत्वात् न च साधकबाधकप्रमाणाभावात् संशयविषयतैवास्त्विति वाच्यं तत्साधकस्यानुमानस्य सद्भावात् तथाहि - अस्त्यात्मा अहं पश्यामि जिप्रामीत्याद्यनुगतप्रत्ययान्यथानुपपत्तेः, आत्माभावे हीन्द्रियाण्येव द्रष्टृणि स्युः, तेषु च परस्परं विभिन्नेष्वहं पश्यामि जिप्रामीत्यादिरनुगतोऽहमितिप्रत्ययोऽनेकेष्विव ational For Private & Personal Use Only www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy