________________
उत्तराध्य. बृहद्वृत्तिः
इषुकारीय मध्ययनं.
॥३९७॥
रामृत्युभयाभिभूतौ, पाठान्तरतश्च जातिजरामृत्युभयाभिभूते सत्यर्थात् संसारिजने बहिः संसाराद्विहारः-स्थान बहिर्विहारः, स चार्थान्मोक्षस्तस्मिन्नभिनिविष्टं-बद्धाग्रहं चित्तम्-अन्तःकरणं ययोस्तो, तथा संसारश्चक्रमिव चक्र भ्रमणोपलक्षितत्वात्संसारचक्रं तस्य विमोक्षणार्थ-परित्यागनिमित्तं दृष्ट्वा' निरीक्ष्य साधूनिति शेषः, यद्वा 'दृष्ट्वेति प्रेक्ष्य मुक्तिपरिपन्थिनोऽमी कामगुणा इति पर्यालोच्य 'तो' अनन्तरोक्तौ 'कामगुणे'त्ति सुब्ब्यत्ययात् 'कामगुणेभ्यः' शब्दादिभ्यो, विषयसप्तमी वा, 'विरक्तौ' पराङ्मुखीभूतौ प्रियौ-बल्लभौ तौ च तौ पुत्रावेव पुत्रको, द्वावपि नैक एव इत्यपिशब्दार्थः 'माहनस्य' ब्राह्मणस्य 'खकर्मशीलस्य' यजनयाजनादिखकीयानुष्ठाननिरतस्य 'पुरोहितस्य शान्तिकर्तुः |'सरितु'त्ति स्मृत्वा 'पोराणिय'त्ति सूत्रत्वात्पुराणामेव पौराणिकी-चिरन्तनीं 'तत्रेति सन्निवेशे कुमारभावे वा, वत्तेमानाविति शेषः 'जाति' जन्म तथा 'सुचिण्णं'ति सुचीर्ण सुचरितं वा निदानादिनाऽनुपहतत्वात् तपः-अनशनादिः, प्राकृतत्वाद्विन्दुलोपः, संयमं च, तपःसंयममिति समाहारद्वन्द्वो वा, अत्र कामगुणविरक्तिरेव जिनेन्द्रमार्गप्रतिपत्तिरिति सूत्रद्वयार्थः ॥ ततस्तौ किमकार्टाम् ? इत्याह
ते कामभोगेसु असजमाणा, माणुस्सएसुं जे यावि दिव्वा ।
मुक्खाभिकंखी अभिजायसहा, तातं उवागम्म इमं उदाहु ॥६॥ 'तौ' पुरोहितपुत्रौ 'कामभोगेषु' उक्तरूपेषु 'असज्जमाण'त्ति असंसजतौ-सङ्गमकुर्वन्तौ 'मानुष्यकेषु' मनुजसम्ब
॥३९७॥
Sain Education
Iconal
For Privale & Personal use only
www.jainelibrary.org