________________
BADASANSACTROSCARENA
नागो जहा पंकजलावसन्नो, दडं थलं नाभिसमेइ तीरं।
एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमणुव्वयामो॥३०॥ 'नागः' हस्ती 'यथेति दृष्टान्तोपदर्शकः पङ्कप्रधानं जलं पङ्कजलं यत्कलमुच्यते तत्रावसनो-निमग्नः पङ्कजलावसन्नः सन् 'दृष्ट्वा' अवलोक्य 'स्थलं' जलविकलभूतलं 'न' नैव "अभिसमेति' प्राप्नोति 'तीर' पारम्, अपेर्गम्यमानत्वात्तीरमप्यास्तां स्थलमिति भावः, इत्येवंविधनागवत् वयमित्यात्मनिर्देशे 'कामगुणेषु' उक्तरूपेषु 'गृद्धाः' मूञ्छिता न 'भिक्षोः' साधोः 'मार्ग' पन्थानं सदाचारलक्षणम् 'अनुव्रजामः' अनुसरामः । अमी हि पङ्कजलोपमाः कामभोगाः, ततस्तत्परतवतया न तत्परित्यागतो निरपायतया स्थलमिव मुनिमार्गमवगच्छन्तोऽपि पङ्कजलावमग्नगजवद्वयमनुगन्तुं शक्नुम इति सूत्रार्थः ॥ पुनरनित्यतादर्शनाय मुनिराह
अचेइ कालो तूरंति राइओ, न यावि भोगा पुरिसाण निच्चा।
उविच भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥३१॥ 'अत्येति' अतिक्रामति कालः यथाऽऽयुःकालः, किमित्येवमुच्यते ?, अत आह-'त्वरन्ति' शीघ्रं गच्छन्ति 'रात्रयः' रजन्यः, दिनोपलक्षणं चैतत् , ततोऽनेन जीवितव्यस्यानित्यत्वमुक्तम् , उक्तं हि-"क्षणयामदिवसमासच्छलेन गच्छन्ति जीवितदलानि । इति विद्वानपि कथमिह गच्छसि निद्रावशं रात्रौ ? ॥१॥' अथवा 'अत्येति' अतीव
उत्तराच्य.६६
Lain Educatio
For Privale & Personal use only
A
sinelibrary.org