________________
णतो निरन्तरमित्यभिप्रायः, सत्यपि च जीविते 'वर्ण' सुस्निग्धच्छायात्मकं 'जरा' विश्रसा 'हरति' अपनयति 'नरस्य' मनुष्यस्य 'राजन् !' चक्रवर्त्तिन् !, यतश्चैवमतः ‘पञ्चालराज!' पञ्चमण्डलोद्भवनृपते ! 'वचन' वाक्यं 'शृणु' आकर्णय, किं तत् ?-मा कापीः, कानि ?-'कर्माणि' असदारम्भरूपाणि 'महालयाणि'त्ति अतिशयमहान्ति, महान् वा लयः-कर्माश्लेषो येषु तानि, उभयत्र पञ्चेन्द्रियव्यपरोपणकुणिमभक्षणादीनीति सूत्रार्थः ॥ एवं मुनिनोक्ते नृपतिराह
अहंपि जाणामि जहेह साह !, जं मे तुमं साहसि वक्कमेयं ।
भोगा इमे संगकरा भवंति, जे दुज्जया अजो ! अम्हारिसेहिं ॥ २७॥ __ अहमपि, न केवलं भवानित्यपिशब्दार्थः, 'जानामि' अवबुध्ये, तथा इति शेषः, 'यथा' येन प्रकारेण 'इह' | अस्मिन् जगति साधो! यत् 'मे' मम त्वं 'साधयसि' कथयसि वाक्यम्' उपदेशरूपं वचः 'एतत् यदनन्तरं भवतोक्तं, तत् किं न विषयान् परित्यजस्यत आह-'भोगाः' शब्दादयः 'इमे' प्रत्यक्षाः 'सङ्गकराः' प्रतिबन्धोत्पादका भवन्ति ये यत्तदोश्च नित्याभिसम्बन्धात्ते दुःखेन जीयन्ते-अभिभूयन्ते इति दुर्जयाः दुस्त्यजा इतियावत् 'अजोत्ति आर्य ! अस्मादृशैः, गुरुकर्मभिर्जन्तुभिरिति गम्यते, पठ्यते च-'अहंपि जाणामि जो एत्थ सारो' पादत्रयं तदेव, अहमपि
*K今六六十六六八本K中六A+x*4+1,
an de
For Private & Personal use only
ibraryong