________________
चित्रसंभूतीयाध्य.
उत्तराध्य.
बाधते मां तृद, तदुपाहर कुतोऽपि जलम् , अत्रान्तरे दृष्टोऽनेन निटकवर्ती वटपादपः, शायितस्तत्र शीतलच्छाये
तत्पल्लवोपरचितश्रस्तरे ब्रह्मदत्तः, कृतश्च वरधनुना तेन सह सङ्केतः-यथा यदि मां कथञ्चिद्दीर्घप्रहितपुरुषाः बृहद्वृत्तिः प्राप्स्यन्ति ततोऽहमन्योक्त्याऽभिज्ञानं करिष्ये, तत इतस्त्वया पलायितव्यमिति, गतोऽसौ जलान्वेषणाय, दृष्टं चैकत्र ॥३८॥
पद्मिनीखण्डमण्डितं सरः, गृहीतं च पद्मिनीपत्रपुटके जलं, प्रवृत्तस्य च ब्रह्मदत्ताभिमुखमागन्तुं ग्रहणं तहटासन्नदेशे, कथञ्चिदुपलब्धतदपसरणवृत्तान्तैर्दीर्घपृष्ठप्रहितपुरुषैरतिरोषवद्भिर्वरधनोबन्धनं वल्लीवितानेन आक्रोशनं चैव
दुष्टवचसा कृतं । अन्यच्च-स हन्यते मुष्टिप्रहारादिभिरमात्यो-वरधनुः, भण्यते च यथा 'देहीति ढोकय कुमारमरे ! है दुराचार ! क पुनरसौ नीतस्त्वया राजपुत्र इति ?, अत्रान्तरे सङ्केतमनुसरता पठितमिदमनेन-'सहकारमअरीमनु
धावति मधुपो विमुच्य मधु मधुरम् । कमले कलयन् पश्चात्सङ्कोचकृतां खतनुवाधाम् ॥१॥' 'गुलीयविरेयणपीतो'त्ति प्राकृतत्वात्पीतविरेचनगुलिकः, स हि तैग्रहीतुमुपक्रान्तोऽन्यथाऽऽत्मनो विमुक्तिमनवगच्छन् पूर्वलब्धां विरेचनगुटिकां प्रथममेव पयसा पीतवान्, विरक्तश्च तया, जाताश्च मुखे फेनबुबुदाः, एवं च कपटेन मृतः कपटमृतो मृत इति 'छर्दितः' त्यक्तस्तैः । इतश्च तत्पठितं श्रुत्वा कुमारो 'भीतः' इति त्रस्तः 'अर्थ' अनन्तरम् 'उप्पहंति उत्पथेन 'पलायित्यत्ति पलायितवान् , तथा च तं पलायमानमवलोक्य कृत्वा स्थविररूपं देवः किमस्य सत्त्वमस्त्युत नेति परीक्षणार्थ 'वाहेसित्ति वाहितवान् व्यंसितवानित्यर्थः कुमारं । ततश्च परिभ्रमतो वटपुरक
'कपुनरसौनीत मुष्टिपहारादिपरातरोपवद्भिर्वर
॥३८॥
Jain Educa
t
ional
For Privale & Personal use only
www.jainelibrary:org