________________
चितं कुर्मः, तेनालोचितं यथैष दुरात्मा दूरस्थो न सुन्दर इति उक्तश्च - यथैतत्त्वद्रहितमखिलमपि राज्यं विनश्यत्यत इहैव स्थितो जपहोमदानादिभिर्धर्ममुपचिनु, तेन चोक्तं - यदादिशन्ति भवन्तः, इत्युक्त्वा च गतः स्वगृहं, कारितं चानेन भागीरथ्यास्तटे खनिवासस्थानं, निरूपितं तत्र सत्रं, खानिता च तत्र प्रत्ययिकपुरुषैर्जतुगृहं यावत्सुरङ्गा, ज्ञापि॥३७८ ॥ ताऽसौ वरघनोः, इतश्च गणितं तत्परिणयनलग्नं, निष्पन्नं च जतुगृहं, प्रेषिता च मत्रिवचनतोऽन्यैव कन्यका मातुलेन, समागतो लग्नदिनः, कृतं सर्वसमृद्धयोपयमनं, शायितश्च रजन्यां जतुगृहे कुमारः, प्रदीपितं च तद्द्वार एव सुप्तजनायां | रजन्यां, ज्ञातं चासन्नस्थितेन वरधनुना, उत्थापितः कुमारो, दृष्टं च सर्वतः प्रदीप्तमेतेन, उक्तश्च वरधनुः- मित्र ! किमिदानीं क्रियतामिति, तेनोक्तं- मा भैषीः, यतः प्रतिविहितमत्र तातेन, अत्रान्तरे चागतं नागकुमारद्वयानुकारि भुवनमुद्भिद्य पुरुषद्वयम्, अभ्यधाच तत् मा भैष्टाम्, आवां हि धनो गृहजातौ दासचेटको, तत्क्रियतां प्रसादो, निर्गम्यतां सुरक्षामार्गेण, इत्युक्तौ च तौ गतौ सुरङ्गाद्वारं, दृष्टं च तत्र प्रधानमश्रद्वयम् उक्तं च ताभ्यां चेटकाभ्याम् - | एतावारुह्य देशान्तरापक्रमणेनात्मानं रक्षतां दीर्घपृष्ठाद्भवन्तौ यावत्कचिदवसरः शुभो भवति, ततस्तद्वचनमाकर्ण्य | किं किमेतत् ? इत्याकुलितचेतसो ब्रह्मदत्तस्य कथितः सर्वोऽपि वरधनुना चुलनीवृत्तान्तः, अभिहितं च-यथेदमेवेदानीं प्राप्तकालमिति, विनिर्गतौ च तत्प्रधानमश्वयुगलमारुह्येति तृतीयगाथातात्पर्यार्थः । एवं च प्राप्तावसरा ब्रह्मदत्तहिण्डी, ततस्तत्र ये कन्यालाभा ये च तत्पितरस्तदुपदर्शनाय गाथापञ्चकमाह
उत्तराध्य.
बृहद्वृत्तिः
Jain Educationonal
For Private & Personal Use Only
*%*
चित्रसंभू
तीयाध्य.
१३
||३७८॥
inelibrary.org