SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ CRORSCORRECEMEMAK तया जीवलोकस्य मृतो ब्रह्मराजः, कृतमौर्द्धदेहिकम् , अतिक्रान्तेषु च कतिपयदिनेषु तद्वयस्यैरभिषिक्तो राज्ये ब्रह्मदत्तः, पर्यालोचितं च तैः-यथैष नाद्यापि राज्यधुराधरणधीरेय इति पालयितुमुचितः कतिचित्संवत्सराणि, निरोपितस्तैस्तत्र दीर्घपृष्ठः, गताः खखदेशेषु कटकादयः, जातश्च सर्वत्राप्रतिहतप्रवेशतया दीर्घपृष्ठस्य सह चुलन्या सम्बन्धः, ज्ञातं चैतदन्तःपुरपालिकया, न्यवेदि च तया धनुर्नाम्नः सेनापतिमत्रिणः सकलमपि तद्वृत्तं, निरूपितस्तेन वरधनुर्यथा न कदाचित्कुमारस्त्वया मोक्तव्य इति, आरब्धश्चासौ तथैवानुष्ठातुम् , अन्यदा चायं विदितदीर्घपृष्ठचुलनीवृत्तान्तः केनचिदुपायेनामू निवारयामीति विजातिशकुनिकसङ्ग्रहणकमानीय कुमारायोपनिन्ये, तचातिनियमितमादायान्तःपुरस्यान्तः किलान्योऽपि य एवं दुष्टशीलः सोऽस्माभिरित्थं नियन्त्रणीय इति तो स्वयं खसहचरैश्च डिम्भैरुद्घोषयन्तौ प्रतिदिनमितश्चेतश्च भ्रमितमारब्धौ, उपलब्धं च तत्ताभ्यामनुष्टीयमानंदीर्घपृष्ठेन, कुपितश्चासौ कुमाराय, भणिता च चुलनी-यथाऽयमुपायेन केनापि विनाश्यतां यतो न विषकन्दल इवैष उपेक्षितः क्षेमङ्करोऽस्माकं भवितेति, प्रतिपन्नं च तत्तया दुरन्ततया मोहोदयस्य, निरूपितश्च ताभ्यामुपायः-यथाऽस्मै पुष्पचूलमातुलेन खदुहिता पुष्पचूला नाम पूर्वदत्तेति तामसौ परिणाय्यते, कार्यते चैतच्छयनाय जतुगृहम् , एतच तन्मत्रितमशेषमपि तथैवान्तःपुररक्षिकया निवेदितं धनोः, तेनापि विनष्टमेतदिति पर्यालोच्य कुमारसंरक्षणाय प्रयत्नः कर्तुमुपचक्रमे, तथाहि-पृष्टोऽसावनेन दीर्घपृष्ठो यथा वयमिदानी वृद्धास्तत्किमिदानीमपरेण ?, युष्माभिरनुज्ञाता धर्ममेवैतत्कालो 平公中六八幸六中六中六F六中 Jain Educati S tational For Privale & Personal use only S ainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy