________________
CLASSASSAGAMANG
कहं चरे भिक्खु ! वयं जयामो?, पावाई कम्माई पणुल्लयामो।
अक्खाहि णे संजय जक्खपूइआ, कहं सुजटुं कुसला वयंति ॥ ४०॥ 'कथं' केन प्रकारेण 'चरि'त्ति विभाषा कथमि लिङ् च इति(पा०३-३-१४३)लिङि वचनव्यत्यये वचनव्यत्ययाचरेमहि-यागार्थ प्रवर्त्तमहि, हे भिक्षो!-मुने! वयमित्यात्मनिर्देशः, तथा 'यजामो' यागंकुर्मः, कथमितियोगः?, पापानि -अशुभानि कर्माणि पुरोपचिताविद्यारूपाणि 'पणुल्लयामो'त्ति प्रणुदामःप्रेरयामो, येनेति गम्यते, 'आख्याहि' कथय 'नः' अस्माकं 'संयतः' पापस्थानेभ्यः सम्यगुपरतः 'यक्षपूजित' यक्षार्चित !, किमुक्तं भवति ?-यो ह्यस्मद्विदितः कर्मप्रणोदनोपायत्वेन यागः स युष्माभिर्दूषित इति भवन्त एवापरं यागमुपदिशन्तु, कदाचिदविशिष्टमेव यजनमुपदिशेदित्याशङ्कयाह-कथं' केन प्रकारेण 'विष्टं' शोभनं यजनं 'कुशला' उक्तरूपा 'वदन्ति' प्रतिपादयन्ति, न तं 'सुदिळं कुसला वयंति'त्ति कुशलमुखेनैव मुनिना दूषितमिति तैरपि तथैव पृष्टमिति सूत्रार्थः ॥ मुनिराह
छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाणा।
परिग्गहं इथिउ माण मायं, एयं परिन्नाय चरंति देता ॥४१॥ पडू जीवकायान्-पृथिव्यादीन् 'असमारभमाणा' अनुपमईयन्तः 'मोसंति मृषा अलीकभाषणं 'अदत्तं चे'त्यदत्तादानं चानासेवमानाः-अनाचरन्तः परिग्रहं-मूच्छी स्त्रियो-योषितो 'माण'त्ति मानम्-अहङ्कारं मायां-परव
Jain Education International
For Privale & Personal use only
www.jainelibrary.org