SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥ ३७० ॥ कुसं च जूवं तणकट्टमरिंग, सायं च पायं उदयं फुसंता ! पाणाई भूयाई विहेडयंता, भूज्जोऽवि मंदा ! पकरेह पावं ॥ ३९ ॥ 'कुशं च' दर्भ च 'यूप' प्रतीतमेव तृणं च-वीरणादि काष्ठं- समिदादि तृणकाष्ठम् अग्निं प्रतीतं, सर्वत्र परिगृह्णन्त इति शेषः, 'सायं' सन्ध्यायां, चशब्दो भिन्नक्रमस्ततः 'पाय'ति प्रातश्च प्रभाते उदकं - जलं 'स्पृशन्त': आचमनादिषु परामृशन्तः 'पाणाई' ति प्राणयोगात् प्राणिनो यद्वा प्रकर्षेणानन्तीति - वसन्तीति प्राणाः- द्वीन्द्रियादयः, सम्भवन्ति हि जले पूतरकादिरूपास्त इति, 'भूयाई' इति भूतान् तरून् 'भूताश्च तरवः स्मृता' इति वचनात् पृथिव्याकेन्द्रियोपलक्षणं चैतत् 'विहेडयंति'त्ति विहेठयन्तो - विशेषेण विविधं वा बाधमानाः विनाशयन्त इत्यर्थः, किमित्याह - 'भूयोऽपि ' पुनरपि न केवलं पुरा किन्तु विशुद्धिकालेऽपि जलानलादिजीवोपमर्द्दतो 'मन्दाः' जडाः 'प्रकुरुथ' प्रकर्षेणोपचिनुथ यूयं किं तत् ? - पापम् - अशुभकर्म्म, अयमाशयः - कुशला हि कर्म्ममलविलयात्मिकां तात्त्विकीमेव शुद्धिं मन्यन्ते, भवदभिमतयागस्त्राने च यूपादिपरिग्रहजलस्पर्शाविनाभावित्वेन भूतोपमर्द्दहेतुतया प्रत्युत कर्म्ममलोपचयनिबन्धने एवेति नातः तत्सम्भव इति कथं तद्धेतुकशुद्धि मार्गणं सुदृष्टं ते वदेयुः ?, तथा च वाचकः" शौचमाध्यात्मिकं त्यक्त्वा, भावशुद्धयात्मकं शुभम् । जलादिशौचं यत्रेष्टं, मूढविस्मापकं हि तदि ॥ १ ॥ " ति सूत्रार्थः ॥ इत्थं तद्वचनतः समुत्पन्नशङ्कास्ते यागं प्रति तावदेवं पप्रच्छुः Jain Education International For Private & Personal Use Only हरिकेशी यमध्यय नम्. १२ ॥ ३७० ॥ www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy