SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ हरिकेशी यमध्यय नम्. १२ उत्तराध्य. ___ 'तहियंति तस्मिन् मुनौ भक्तपानं प्रतीच्छति यज्ञवाटे वा गन्धः-आमोदस्तत्प्रधानमुदकं-जलं गन्धोदकं तच पुष्पाणि च-कुसुमानि तेषां वर्ष-वर्षणं गन्धोदकपुष्पवर्ष, सुरैरिति सम्बधात् कृतमिति गम्यते, दिव्या-श्रेष्ठा हायदिवा दिवि-गगने भवा दिव्या, 'तहिति तस्मिन्नेव नान्यत्र, अनेन कथमियतामेकत्र कल्याणानां मीलक इत्य- ॥३६९॥ न्यत्रैवान्यतरत्कल्याणान्तरं भविष्यतीत्याशङ्का निराकृता, वसु-द्रव्यं तस्य धारा-सततपातजनिता सन्ततिर्व सुधारा सा च 'वृष्टे'ति पातिता, सुररित्यत्रापि सम्बध्यते, तथा प्रकर्षण हताः-ताडिताः प्रहताः, के ते?'दुन्दुभयो' देवानकाः, उपलक्षणत्वाच्छेपातोद्यानि च, कैः ?-'सुरैः' देवैः, तथा तैरेव 'आकाशे' नभसि 'अहो' इति विस्मये, विस्मयनीयमिदं दानं, कोऽन्यः किलैवं शक्नोति दातुं ?, एवं दत्तं सुदत्तमिति च 'घुष्टं संशब्दितमिति सूत्रार्थः ॥ तेऽपि ब्राह्मणा विस्मितमनस इदमाहुः सक्खं खु दीसइ तयोविसेसो, न दीसई जाइविसेस कोई । सोवागपुत्तं हरिएससाहुं, जस्सेरिसा इढि महाणुभागा ॥ ३७॥ 'साक्षात्' प्रत्यक्षं 'सु'रिति निश्चितं अवधारणे वा ततः साक्षादेव 'दृश्यते' अवलोक्यते, कोऽसौ ?-तपो-लोहकप्रसिद्ध्या व्रतमुपवासादिर्वा तस्य विशेषो-विशिष्टत्वं माहात्म्यमितियावत्तपोविशेषो, 'न' नैव दृश्यते 'जाति विशेषो' जातिमाहात्म्यलक्षणः कोऽपीति खल्पोऽपि, किमित्येवमत आह-यतः खपाकपुत्रः-चाण्डालसुतोहरि ॥३६९॥ in Educa For Private & Personal use only www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy