________________
उत्तराध्य.
बृहद्वृत्तिः
॥३६५॥
द्रसामर्थ्यो, यतोऽयमीदृक् ततः किमित्याह - 'मा' इति निषेधे 'एनं' यतिं 'हीलयत' अवधूतं पश्यत 'अहील - नीयम्' अवज्ञातुमनुचितं किमित्यत आह- मा सर्वान् - समस्तांस्तेजसा - तपोमाहात्म्येन 'भे' भवतो निर्धाक्षीद् - भस्मसात्कार्षीद्र, अयं हि हीलितो यदि कदाचिद्रुष्येत्तदा सबै भस्मसादेव कुर्यादिति भाव इति सूत्रत्रयार्थः ॥ अत्रान्तरे मा भूदेतस्या वचनं मृषेति यद्यक्षः कृतवांस्तदाह
एयाई तीसे वयणाई सुच्चा, पत्तीइ भद्दाइ सुभासियाई । इसिस्स वेयावडियट्टयाए, जक्खा कुमारे विणिवारयति ॥ २४ ॥ ते घोररूवा ठिअ अंतलिक्खे, असुरा तहिं तं जणं तालयंति । ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुजो ।। २५ ।।
'एतानि ' अनन्तरोक्तानि 'तस्याः' अनन्तरोक्तायाः 'वचनानि' भाषितानि 'श्रुत्वा' निशम्य 'पत्याः' यज्ञवाटका - | धिपतेः सोमदेवपुरोहितस्य, तस्यैव वा मुनेरिति गम्यते, 'भद्राया' भद्राभिधानायाः 'सुभाषितानि' सूक्तानि वच| नानीति योज्यते, ऋषेः-तस्यैव तपखिनः 'वेयावडियट्टयाए' त्ति सूत्रत्वाद्वैयावृत्त्यार्थमेतत् प्रत्यनीकनिवारणलक्षणे प्रयोजने व्यावृत्ता भवाम इत्येवमर्थं यक्षाः, यक्षपरिवारस्य बहुत्वात् बहुवचनं, कुमारान् प्रक्रमात्तानेवोपहन्तृन् 'विनिपातयन्ति ' विविधं नितरां पातयन्ति - भूमौ विलोलयन्ति, पठ्यते च - 'विणिवारयति'त्ति विशेषेणोपहति
Jain Education onal
For Private & Personal Use Only.
हरिकेशी
यमध्यय
नम्. १२
॥ ३६५॥
inelibrary.org