________________
SANS
A GARLASSESCAREERS
वियरिजइ खजइ भुजई य, अन्नं पभूयं भवयाणमेयं ।
जाणाहि मे जायणजीविणुत्ति, सेसावसेसं लहओ तवस्सी ॥१०॥ श्रमणो-मुनिः 'अह'मित्यात्मनिर्देशः, किमभिधानत एवेत्याशङ्ख्याह-सम्यग यतः संयतः-असद्व्यापारेभ्य उपरतः, अत एव च ब्रह्मचारी-ब्रह्मचर्यवान् , तथा विरतो निवृत्तः, कुतो ?-धनं च पचनं च परिग्रहश्च धनपचनपरिग्रहमिति समाहारः तस्मात्, तत्र धनं चतुष्पदादि पचनमाहारनिष्पादनं परिग्रहो द्रव्यादिषु मूर्छा, अत एव च परस्मै प्रवृत्तंपरैः खार्थ निष्पादितत्वेन परप्रवृत्तं तस्य, तुरवधारणे, ततः परप्रवृत्तस्यैव, न तु मदर्थ साधितस्येति भावः, 'भिक्षाकाले' भिक्षाप्रस्तावे, कदाचिदकालोऽयं ब्रूयादित्येवमुक्तं, 'अन्नस्य' अशनस्य 'अट्टत्ति सूत्रत्वादर्थाय, भोजनार्थमिति भावः, 'इह' अस्मिन् यज्ञवाटके आगतोऽस्मि, अनेन यदुक्तं-कतर त्वं किमिहागतोऽसि ?, तत्प्रतिवचनमुक्तम्, एवमुक्ते च ते कदाचिदभिदध्युः-नेह किञ्चित् कस्मैचिद्दीयते न वा देयमस्त्यत आह-'वितीर्यते' दीयते दीनानाथादिभ्यः खाद्यते खण्डखाद्यादि, भुज्यते च भक्तसूपादि, अद्यत इत्यनं स सर्वमपि सामान्येनोच्यते, तदप्यल्पमेव स्थादत आह-'प्रभूतं' बहु, प्रभूतमपि परकीयमेव स्यात् , अत आह- भवतां' युष्माकमेव सम्बन्धि 'एतदिति प्रत्यक्षं, तथा च 'जानीत' अवगच्छत 'मे'त्ति सूत्रत्वान्मां 'जायणजीविणोति याचनेन जीवनं-प्राणधारणमस्येति याचन
*公*六小卒於$%*K*K*KKK亭六中六
Jain Education
For Privale & Personal use only
melibrary.org