________________
उत्तराध्य.
बृहद्वृत्तिः
॥३५९॥
SROOMICROSSACROSokes
वर्तते, ततोऽयमर्थः-अस्मदृष्टिपथादपसर, तथा किमिह स्थितोऽसि त्वं ?, नैवेह त्वया स्थातव्यमिति भाव इति । हरिकेशीसूत्रार्थः ॥ एवमधिक्षिसेऽपि तस्मिन् मुनौ प्रशमपरतया किञ्चिदप्यजल्पति तत्सान्निध्यकारी गण्डीतिन्दुकयक्षो यद
यमध्ययचेष्टत तदाहजक्खो तहिं तिंदुयरुक्खवासी, अणुकंपओ तस्स महामुणिस्स।
A नम्. १२ पच्छायइत्ता नियगं सरीरं, इमाइं वयणाई उदाहरित्था ॥८॥ यक्षो-व्यन्तरविशेषः, तस्मिन् अवसर इति गम्यते, तिन्दुको नाम वृक्षस्तद्वासी, तथा च सम्प्रदायः-तस्स तिदुगवणस्स मज्झे महंतो तिंदुगरुक्खो, तहिं सो वसति, तस्सेव हेट्ठा चेइयं, जत्थ सो साहू चिट्ठति । 'अणुकंपउ'त्ति अनुशब्दोऽनुरूपार्थे ततश्चानुरूपं कम्पते-चेष्टत इत्यनुकम्पक:-अनुरूपक्रियाप्रवृत्तिः, कस्सेत्याह-'तस्य' हरिकेशबलस्य 'महामुनेः' प्रशस्यतपखिनः 'प्रच्छाय' प्रकर्षणावृत्य निजकम्-आत्मीयं शरीरं, कोऽभिप्रायः -तपखिशरीर एवाविश्य स्वयमनुपलक्ष्यः सन्निमानि-वक्ष्यमाणानि 'वचनानि' वचांसि 'उदाहरित्य'त्ति उदाहार्षीदुदाहृतवानित्यर्थः, इति सूत्रार्थः ॥ कानि पुनस्तानि', इत्याह
॥३५९॥ समणो अहं संजउ भयारी, विरओ धणपयणपरिग्गहाओ। परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इहमागओमि ॥९॥
Jain Education
For Privale & Personal use only
www.jainelibrary.org