________________
काऊणं पविसंती सघरं पुरोहिएण राया भणिओ-एसा रिसिभजा बंभणाणं कप्पइत्ति, दिण्णा तस्सेव । सो य जपणे दिक्खिजिउकामो सा अण्णेण लद्धा, सावि जण्णपत्तित्तिकाऊण दिक्खिया । इत्युक्तः सम्प्रदायोऽवसितश्च नामनिहैप्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पन्नस्यावसरः, स च सूत्रे सति सम्भवत्यतः सूत्रानुगमे सूत्रमुञ्चारणीयं, तच्चेदम्
सोवागकुलसंभूओ, गुणुत्तरधरो मुणी । हरिएस बलो नाम, आसि भिक्खू जिइंदिओ॥१॥
श्वपाकाः-चाण्डालास्तेषां कुलम्-अन्वयस्तस्मिन् सम्भूतः-समुत्पन्नः श्वपाककुलसम्भूतः, तत्किं तत्कुलोत्पत्त्यकानुरूप एवायमुत नेत्याह-गुणेपूत्तराः-प्रधाना गुणोत्तराः-ज्ञानादयः तान् धारयति गुणोत्तरधरः, पठन्ति च–'अणु-1 सत्तरघरे'त्ति, तत्र न विद्यते उत्तरम्-अन्यत्प्रधानमेषामित्यनुत्तराः, ते च प्रक्रमात्प्रकर्षप्राप्ता ज्ञानादय एव गुणास्तान्
धारयत्यनुत्तरधरो, यद्वा अनुत्तरान् गुणान् धारयतीत्यनुत्तरधर इति मयूरव्यंसकादिपु द्रष्टव्यो, मुणति-प्रतिजानीते सर्वविरतिमिति मुणिः, श्वपाककुलोत्पन्नोऽपि कदाचित्सवासादिनाऽन्यथैव प्रतीतः स्यादत आह-हरिकेशः सर्वत्र हरिकेशतयैव प्रतीतो बलो नाम-बलाभिधानः आसीद्-अभूत् , तस्य च मुनित्वं प्रतिज्ञामात्रेणापि स्यादत आह
१ कृत्वा प्रविशन्ती स्वगृहं पुरोहितेन राजा भणितः-एषा ऋषिभार्या ब्राह्मणानां कल्पते इति, दत्ता तस्मायेव । स च यज्ञे दीक्षयितुकामः साऽन्ये(ने)न लब्धा, साऽपि यज्ञपत्नीतिकृत्वा दीक्षिता ।
Jain Education is
na
For Privale & Personal use only
V
inelibrary.org