SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ स्थिर इति शेषगिरिकल्पापरस्थिरसाध्वपेक्षया प्रवर एव भवति, तथाऽन्धकारेऽपि प्रकाशनशक्त्यन्विता आमोंपध्यादयस्तत्रातिप्रतीता एवेति सूत्रार्थः ॥ किं बहुना ? जहा से सयंभूरमणे, उदही अक्खओदए । नाणारयणपडिपुण्णे, एवं भवइ बहुस्सुए ॥३०॥ | व्याख्या-यथा स 'खयम्भूरमणः' स्वयम्भूरमणाभिधानः 'उदधिः' समुद्रः अक्षयम्-अविनाश्युदकं-जलं यस्मिन् स तथा, नानारत्नैः-नानाप्रकारैर्मरकतादिभिः प्रतिपूर्णो-भृतः नानारत्नप्रतिपूर्णः, एवं भवति बहुश्रुतः, अयमपि बक्षयसम्यगज्ञानोदको नानाऽतिशयरत्नवांश्च भवति, यदिवाऽक्षत उदयः-प्रादुर्भावो यस्य सोऽक्षतोदय इति सूत्रार्थः ॥ साम्प्रतमुक्तगुणानुवादतः फलोपदर्शनतश्च तस्यैव माहात्म्यमाह समुदगंभीरसमा दुरासया, अचक्किया केणइ दुप्पहंसया। सुयस्स पुण्णा विउलस्स ताइणो, खवेत्तु कम्म गइमुत्तमं गया ॥३१॥ व्याख्या-'समुद्दगंभीरसम'त्ति आपत्वादाम्भीर्येण-अलब्धमध्यात्मकेन गुणेन समा गाम्भीर्यसमाः समुद्रस्य ६ गाम्भीर्यसमाः समुद्रगाम्भीर्यसमाः, 'दुरासय'त्ति दुःखेनाश्रीयन्ते-अभिभवबुद्धयाऽऽसाद्यन्ते वा-जेतुं सम्भाव्यन्ते केनापीति दुराश्रया दुरासदा वा, अत एव "अचक्किय'त्ति अचकिताः-अत्रासिताः, 'केनचिदिति परीपहादिना परप्रवादिना वा, तथा दुःखेन प्रवर्ण्यन्ते-पराभूयन्ते केनापीति दुष्प्रर्षास्त एव दुष्प्रधर्षकाः, क एवंविधाः ? Jain Educati o nal For Privale & Personal use only N ainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy