________________
RECENCESCCSCAXCASSECCESS
जहाइन्नसमारूढे, सूरे दढपरक्कमे । उभओ नंदिघोसेणं, एवं हवइ बहुस्सुए॥१७॥ व्याख्या-यथा आकीर्ण-जात्यादिगुणोपेतं तुरङ्गमं सम्यगारुढः-अध्यासितः आकीर्णसमारुढः, सोऽपि कदाचित् है कातर एव स्यादत आह-'शूरः' चारभटः दृढः-गाढः पराक्रमः-शरीरसामर्थ्यात्मको यस्य स तथा, 'उभउत्ति उभ
यतो वामतो दक्षिणतश्च यद्वाऽग्रतः पृष्ठतश्च 'नन्दीघोषेण द्वादशतूर्यनिनादात्मकेन, यद्वा आशीर्वचनानि नान्दी जीयास्त्वमित्यादीनि तद्घोषेण बन्दिकोलाहलात्मकेन, लक्षणे तृतीया, एवं भवति बहुश्रुतः, किमुक्तं भवति ?-यथैवंविधः शूरो न केनचिदभिभूयते न चान्यस्तदाश्रितः, तथाऽयमपि जिनप्रवचनतुरङ्गाश्रितो दृप्यत्परवादिदर्शनेऽपि चात्रस्तः तद्विजयं च प्रति समर्थः उभयतश्च दिनरजन्योः स्वाध्यायघोषरूपेण खपक्षपरपक्षयोर्वा चिरं जीवत्वसौ येनानेन प्रव-8 |चनमुद्दीपितमित्याद्याशीर्वचनात्मकेन नान्दीपोषेणोपलक्षितः परतीर्थिभिरतीव मदावलिसैरपि नाभिभवितुं शक्यः, न चात्र प्रतपत्येतदाश्रितोऽन्योऽपि कथञ्चिजीयत इति सूत्रार्थः ॥ तथा
. जहा करेणुपरिकिण्णे, कुंजरे सहिहायणे । बलवंते अप्पडिहए, एवं भवइ बहुस्सुए ॥१८॥ ६ व्याख्या-'यथा' करेणुकाभिः-हस्तिनीभिः परिकीर्णः-परिवृतो यः स तथा, न पुनरेकाक्येव 'कुञ्जरः' हस्ती ।
पष्टिायनान्यस्येति षष्टिहायनः-पष्टिवर्षप्रमाणः, तस्य हि एतावत्कालं यावत् प्रतिवर्ष बलोपचयः ततस्तदपचय । 8| इत्येवमुक्तम् , अत एव च 'बलवंतेत्ति बलं-शरीरसामर्थ्यमस्यास्तीति बलवान् सन् अप्रतिहतो भवति, कोऽर्थः १-8 नान्यैर्मदमुखैरपि मतङ्गजैः पराङ्मुखीक्रियते, एवं भवति बहुश्रुतः, सोऽपि हि करेणुभिरिव परप्रसरनिरोधिनीभिरौत्प
णुपरिकिण्णे, कंजरे जीयत ति सूत्रार्थः ॥ तथा व मदावलिसैरपि नाभिभवितुं शक्य
उत्तराध्य.५९
Jain Educatio
n
al
For Privale & Personal use only
ke lainelibrary.org