SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥३४६ ॥ | सेवकोऽयमित्यादिकमनाचारमेवाविष्करोति । तथा प्रकीर्णम् इतस्ततो विक्षिप्तम्, असम्बद्धमित्यर्थः, वदति - | जल्पतीत्येवंशीलः प्रकीर्णवादी, वस्तुतत्त्वविचारेऽपि यत्किञ्चनवादीत्यर्थः, अथवा यः पात्रमिदमपात्रमिदमिति वाऽपरीक्ष्यैव कथञ्चिदधिगतं श्रुतरहस्यं वदतीत्येवंशीलः प्रकीर्णवादी इति, प्रतिज्ञया वा - इदमित्थमेव इत्येकान्ताभ्युपगमरूपया वदनशीलः प्रतिज्ञावादी, तथा 'दुहिल'त्ति द्रोहणशीलो-द्रोग्धा, न मित्रमप्यनभिद्रुह्यास्ते, तथा 'स्तब्धः ' | तपव्यहमित्याद्यहङ्कृतिमान्, तथा 'लुब्धः' अन्नादिष्वभिकाङ्क्षावान्, तथा 'अनिग्रहः' प्राग्वत्, तथाऽसंविभजनशीलः असंविभागी, नाऽऽहारादिकमवाप्यातिगर्द्धनोऽन्यस्मै खल्पमपि यच्छति, किन्त्वात्मानमेव पोपयति, तथा 'अचियत्ते'त्ति अप्रीतिकरः - दृश्यमानः सम्भाष्यमाणो वा सर्वस्याप्रीतिमेवोत्पादयति, एवंविधदोषान्वितः अविनीत उच्यते इति निगमनम् । इत्थमविनीतस्थानान्यभिधाय विनीतस्थानान्याह - अथ पञ्चदशभिः स्थानैः सुष्ठु - शोभनो विनीतो - विनयान्वितः सुविनीत इत्युच्यते, तान्येवाह - 'नीयावित्ति'त्ति नीचम् - अनुद्धतं यथा भवत्येवं नीचेषु वा शय्यादिषु वर्तत इत्येवंशीलो नीचवर्ती - गुरुषु न्यग्वृत्तिमान्, यथाऽऽह - "नीयं सेज्जं गई ठाणं, णियं च आसणाणि य । मियं च पाय वंदेज्जा, णीयं कुज्जा य अंजलिं ॥१॥' 'अचपलः ' नाऽऽरन्धकार्य प्रत्यस्थिरः, ४ ॥३४६ ॥ अथवाऽचपलो - गतिस्थानभाषाभावभेदतश्चतुर्धा, तत्र - गतिचपलः - द्रुतचारी, स्थानचपलः - तिष्ठन्नपि चलन्नेवास्ते १ नीचां शय्यां गतिं स्थानं नीचानि चासनानि च । नीचं पादौ वन्देत नीचं च कुर्याच्चाञ्जलिम् ॥ १ ॥ Jain Educationtional For Private & Personal Use Only बहुश्रुतपू जाध्ययनं. ११ 2inelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy