SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ त्याह-'अभीक्ष्णं' पुनः पुनः, यद्वा-क्षणं क्षणमभि अभिक्षणम्-अनवरतं 'क्रोधी' क्रोधनः भवति, सनिमित्तमनिमित्तं वा कुप्यन्नेवास्ते, 'प्रबन्धं च' प्रकृतत्वात् कोपस्यैवाविच्छेदात्मकं 'पकुवइत्ति प्रकर्षण कुरुते, कुपितः सन् | सान्त्वनैरनेकैरपि नोपशाम्यति, विकथादिषु वाऽविच्छेदेन प्रवर्तनं प्रबन्धस्तं च प्रकुरुते, तथा 'मेत्तिजमाणोत्ति मित्रीप्यमाणोऽपि मित्रं ममायमस्त्वितीष्यमाणोऽपि अपिशब्दस्य लुप्तनिर्दिष्टत्वात् 'वमति' त्यजति, प्रस्तावान्मित्रयितारं मैत्री वा, किमुक्तं भवति ?-यदि कश्चिद्धार्मिकतया वक्ति-यथा त्वं न वेत्सीत्यहं तव पात्रं लेपयामि, ततोऽसौ प्रत्युपकारभीरुतया प्रतियक्ति-ममालमेतेन, कृतमपि वा कृतघ्नतया न मन्यत इति वमतीत्युच्यते, तथा|| 'सुर्य'ति अपेर्गम्यमानत्वात् श्रुतमपि-आगममपि 'लब्ध्वा ' प्राप्य 'माद्यति' दर्प याति, किमुक्तं भवति?-श्रुतं हि मदापहारहेतुः, स तु तेनापि दृप्यति । तथा 'अपिः' सम्भावनायां, सम्भाव्यत एतत् , यथाऽसौ पापैः-कथञ्चित् । समित्यादिषु स्खलितलक्षणैः परिक्षिपति-तिरस्कुरुत इत्येवंशीलः पापपरिक्षेपी, आचार्यादीनामिति गम्यते, तथा ४ 'अपिः' भिन्नक्रमः, ततः 'मित्रेभ्योऽपि सुहृयोऽप्यास्तामन्येभ्यः 'कुप्यति' क्रुध्यति, सूत्रे तु चतुर्थ्यर्थे सप्तमी, "क्रुधिद्रुहेाऽसूयार्थानां यं प्रति कोप" (पा० १-४-३७) इत्यनेनेह चतुर्थीविधानात् , तथा 'सुप्रियस्यापि' अतिवलमस्यापि मित्रस्य रहसि' एकान्ते 'भाषते' वक्ति पापमेव पापकं, किमुक्तं भवति ?-अग्रतः प्रियं वक्ति पृष्ठतस्तु प्रति १ प्राकृतानुकरणमेतत्, मित्रस्येयं मित्रीया तां क्रियमाण इति वा । CIENCMCCORRCHES CCCC Jain Education na For Privale & Personal use only o nelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy