SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ अथ बहुश्रुतपूजाख्यमेकादशमध्ययनम् । उक्तं दशममध्ययनं, साम्प्रतमेकादशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययनेऽप्रमादार्थमनुशासनमुक्तं, तच्च विवेकिनैव भावयितुं शक्यं, विवेकश्व बहुश्रुतपूजात उपजायत इति बहुश्रुतपूजोच्यते इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि प्ररूपयितव्यानि, यावन्नामनिष्पन्ने निक्षेपे 'बहुसूत्रपूजा बहुश्रुतपूजे'ति वा नाम, अतस्तन्निक्षेपप्रतिपिपादयिषयेदमाह नियुक्तिकृत बहु सुए पूजाए यतिण्हपि चउक्कओ य निक्खेवो । दवबहुगेग बहुगा जीवा तह पुग्गला चेव ॥३१०॥ KI व्याख्या-'बहु'त्ति बहोः 'सुए'त्ति शतमुखत्वात् प्राकृतस्य सूत्रस्य श्रुतस्य वा 'पुयाए यत्ति पूजायाश्च 'त्रया-13 Pणामपि' अमीषां पदानां 'चतुकतु' चतुपरिमाण एव 'निक्षेपः' न्यासः, स च नामादिः, तत्र नामस्थापने क्षुण्णे, द्रव्यतस्तु बहभिधातुमाह-'दखबहुएग'त्ति आपत्वात् द्रव्यतो बहुत्वं द्रव्यवहुत्वं तेन 'बहुकाः' प्रभूताः 'जीवाः' उपयोगलक्षणाः, तथा 'पुद्गलाः' स्पर्शादिलक्षणाः, चशब्दः पुद्गलानां जीवापेक्षया बहुतरत्वं ख्यापय ति, ते ह्येकैकस्मिन् संसारिजीवप्रदेशेऽनन्तानन्ता एव सन्ति, 'एवः' अवधारणे, जीवपुद्गला एव द्रव्यवह वः, तत्र धर्माधर्माऽऽ-11 काशानामेकद्रव्यत्वात् कालस्यापि तत्त्वतः समयरूपत्वेन बहुत्वाभावादिति गाथार्थः ॥ JainEducation.internationa For Private & Personal use only wrow.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy