________________
शारदं, वेत्युपमार्थो भिन्नक्रमश्च प्राग योजितः 'पानीयं जलं, यथा तत् प्रथमं जलमग्नमपि जलमपहाय त्वमपि चिरसंसृष्टचिरपरिचितत्वादिभिर्मद्विषयस्नेहवशगोऽपि तमपनय, अपनीय च 'से' इत्यथानन्तरं सर्वस्नेह र्जितः सन् समयमपि गौतम ! मा प्रमादीः । इह च जलमपहायतावति सिद्धे यच्छारदशब्दोपादानं तच्छारदजलस्येव | स्नेहस्याप्यतिमनोरमत्वख्यापनार्थमिति सूत्रार्थः । किञ्च
चिचा ण धणं च भारियं, पव्वइओ हि सि अणगारियं । मा वंतं पुणोवि आविए, समयं०॥ २९ ॥
व्याख्या-'त्यक्त्वा' परिहत्य 'ण' इति वाक्यालङ्कारे 'धनं चतुष्पा दि चशब्दो भिन्नक्रमः, ततो 'भार्या च' कलत्रं च 'प्रत्रजितः' गृहान्निष्क्रान्तः 'हिः' इति यस्मात् 'सी'ति सूत्रत्वेनाकारलोपात् 'असि' भवसि 'अणगारियं'ति अनगारेषु-भावभिक्षुषु भवमानगारिकमनुष्ठानं, चस्य गम्यमानत्वात् तच प्रतिपन्नवानसीति शेषः, यद्वा प्रव्रजितःप्रतिपन्नः 'अणगारिय'ति अनगारिताम् , अतो 'मा' इति निषेधे, 'वान्तम्' उद्गीर्ण 'पुणोवित्ति पुनरपि 'आविए' त्ति आपिब, किन्तु समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ कथं च वान्ताऽऽपानं न भवतीत्याह
अवउज्झिय मित्तबंधवं, विउलं चेव धणोहसंचयं । मा तं बिइयं गवेसए, समयं०॥३०॥ व्याख्या-'अपोह्य' त्यक्त्वा, मित्राणि च-सुहृदो बान्धवाश्च-स्वजना इति समाहारे मित्रबान्धवं, 'विपुलं' विस्तीर्ण 'चः' समुचये भिन्नक्रमश्च ‘एवं' इति पूरणे, ततो धनं-कनकादिद्रव्यं, तस्यौधः-समूहस्तस्य सञ्चयो-राशी
***K亭六八十<44***六八六六
Jain Education
B
onal
For Private & Personal Use Only
Milinelibrary.org